________________ परिष्ठापयेदिति हृदयम्। बहलब्धं भोजनमपि न साधर्मिकाननालोकय्यानापृच्छ्यानामन्त्रय्य परिष्ठापयेत्, मायापाशप्रसङ्गात्। न परं समुद्दिश्य बहिर्निहृतमनिसृष्टमप्रासुकं प्रतिग्राह्यम्। // 2-1-10 // भिक्षुः पिण्डं प्रतिगृह्य साधर्मिकाननापृच्छ्य यस्मै यस्मै इच्छति, तस्मै तस्मै प्रभूतं प्रभूतं यदि प्रयच्छति तदा मायास्पर्शः, अतो नैवं कार्यम्। अपि तु तद् गृहीत्वाऽऽचार्यादिसमीपे गत्वा तानापृच्छ्य यथा ते वदन्ति तथा