________________ 172 તીર્થકરના 34 અતિશયો पणमंति दुमा वज्जंति३, दुंदुहीओ गहीरघोसाओ३४ / चउतीसाइसयाणं, सव्वजिणिंदाण हुंति इमा // 450 // - प्रवयनसारोद्धार, द्वा२ 40 मुं (छाया - रजोरोगस्वेदरहितः, देहः 1 धवले मांसरुधिरे 2 / आहारनीहारा-वदृश्यौ 3 सुरभयः श्वासाः 4 // 441 // जन्मत इमे चत्वारः, एकादश कर्मक्षयभवा इदानीम् / क्षेत्रे योजनमात्रे, त्रिजगज्जनः माति बहुकोऽपि 5 // 442 // निजभाषया नरतिर्यक्सुराणां, धर्मावबोधका वाणी / पूर्वभवा रोगा, उपशाम्यन्ति 7 न च भवन्ति वैराणि 8 // 443 // दुर्भिक्ष 9 डमर 10 दुर्मारि ११-ईति 12 अतिवृष्टि 13 अनावृष्टयः 14 / भवन्ति न जितबहुतरणिः, प्रसरति भामण्डलोद्योतः 15 // 444 // सुरचिता एकोनविंशतिः, मणिमयसिंहासनं सपादपीठम् 16 / छत्रत्रय 17 इन्द्रध्वज १८-श्वेतचामर 19 धर्मचक्राणि 20 // 445 // सह जगद्गुरुणा गगन-स्थितानि पञ्चापीमानि विचरन्ति / प्रादुर्भवति अशोकः 21, तिष्ठति यत्र प्रभुस्तत्र // 446 // चतुर्मुखमूर्तिचतुष्कं 22, मणिकाञ्चनताररचितशालत्रिकम् 23 / नवकनकपङ्कजानि 24, अधोमुखाः कण्टका भवन्ति 25 // 447 // नित्यमवस्थितमात्रा, प्रभोस्तिष्ठन्ति केशरोमनखाः 26 / इन्द्रियार्थाः पञ्चापि, मनोरमाः 27 भवन्ति षडपि ऋतवः 28 // 48 // गन्धोदकस्य वृष्टिः 29, वृष्टिः कुसुमानां पञ्चवर्णानाम् 30 / ददति प्रदक्षिणाः शकुनाः 31, प्रभोः पवनोऽप्यनुकूलः 32 // 449 // प्रणमन्ति द्रुमाः 33 वाद्यन्ते, दुन्दुभयः गम्भीरघोषाः 34 / चतुस्त्रिंशदतिशयानां, सर्वजिनेन्द्राणां भवन्ति इमाः // 450 // )