________________ 145 ग्रन्थोपसंहारः सारभूता, 'निस्सीमात्यक्षसौख्योदयवसतिः' अनन्तातीन्द्रियानन्दानुभवस्थानम्, 'अनि:पातिनी' निपातरहिता 'मुक्तिः ' सिद्धिः 'उक्ता' गदितेति // 135 // अथ पूर्वर्षिरचितबहुशास्त्रेभ्यो गुणस्थानार्थसङ्गतश्लोकसङ्ग्रहेण प्रकरणोद्धारमाह - इत्युद्धृतो गुणस्थान-रत्नराशिः श्रुतार्णवात् / पूर्वर्षिसूक्तिनावैव, रत्नशेखरसूरिभिः // 136 // व्याख्या - 'इति' पूर्वोक्तप्रकारेण 'उद्धृतः' प्रकटीकृतः कर्मतापन्नो 'गुणस्थानरत्नराशिः' गुणस्थानान्येव रत्नानि गुणस्थानरत्नानि तेषां राशिर्गुणस्थानरत्नराशिः, कस्मात् ? 'श्रुतार्णवाद्' आगमरत्नाकरात्, कयैव कृत्वा ? 'पूर्वर्षिसूक्तिनावैव' पूर्वर्षीणां सूक्तिःशोभनोक्तिः पद्यरचना सैव नौस्तया पूर्वर्षिसूक्तिनावैव कृत्वा, न त्वात्मकृतैः श्लोकैः, प्रायः पूर्वर्षिरचितैरेवेत्यर्थः, कैरुद्धृतः ? - 'रत्नशेखरसूरिभिः' बृहद्गच्छीयश्रीवज्रसेनसूरिशिष्यैः श्रीहेमतिलकसूरिपट्टप्रतिष्ठितैः श्रीरत्नशेखरसूरिभिः स्वपरोपकाराय प्रकरणरूपतया प्रकटित इत्यर्थः // 136 / / // इति श्रीगुणस्थानक्रमारोहवृत्तिः // विमर्शपूर्वकं स्वार्थ-स्थापकं हेतुसंयुतम् / स्तोकं कार्यकरं स्वादु, निर्गर्वं निपुणं वदेत् // 8/312 // - विवेकविलासः