________________ 38 भङ्गसङ्ख्याकरणम् एकादीनि पदानि नवपर्यन्तानि क्रमेण स्थाप्यन्ते 1 / 2 / 3 / 4 / 5 / 6 / 7 / 8 / 9 / अत्र मिथोगुणने यथा अत्राद्यस्यैकरूपस्य पदस्य द्वितीयाभावेन मिथोगुणनाभावात् एक एव भङ्गः / तथा एकद्विकयोर्गुणने जाती द्वौ, द्विकगणस्य भङ्गसङ्ख्या 2 / द्वौ त्रिभिर्गुणितौ जाताः षट्, एषा त्रिकगणस्य भङ्गसङ्ख्या 3 / ततः षट् चतुभिर्गुणिता जाता चतुर्विंशतिः, एषा चतुष्कगणस्य भङ्गसङ्ख्या 4 / ततश्चतुर्विंशतिः पञ्चभिर्गुणिता जातं विंशत्युत्तरं शतं, एषा पञ्चकगणस्य भङ्गसङ्ख्या 5 / विंशत्युत्तरशतं षड्भिर्गुणितं जातानि सप्तशतानि विंशत्युत्तराणि, एषा षट्कगणस्य भङ्गसङ्ख्या 6 / इयं च सप्तभिर्गुणिता जाता पञ्चसहस्रश्चत्वारिंशदधिका, एतावती सप्तकगणस्य भङ्गसङ्ख्या 7 / इयं अष्टभिर्गुणिता जाता अष्टकगणस्य भङ्गसङ्ख्या चत्वारिंशत्सहस्राणि त्रीणि शतानि विंशत्युत्तराणि 8 / एते भङ्गा नवभिर्गुणिता जातास्तिस्त्रो लक्षाः द्वाषष्टिः सहस्राः अशीत्यधिकानि अष्टौ शतानि च, एषा नमस्कारनवपदानां-आनुपूर्वीअनानुपूर्वी-पश्चानुपूर्वी-भङ्गानां सङ्ख्या 9 // 2 // एता एव भङ्गसङ्ख्या गाथाभिराह - एगस्स एगभंगो, दोण्हं दो चेव तिण्ह छभंगा। चउवीसं च चउण्हं, वीसुत्तरसयं च पंचण्हं // 3 // सत्तसयाणि वीसा, छण्हं पणसहसचत्त सत्तण्हं / चालीससहस्स तिसया, वीसुत्तरा हुंति अट्ठण्हं // 4 // लक्खतिगं बासट्ठी, सहस्स अट्ठ य सयाणि तह / असीई नवकारनवपयाणं, भंगसंखाउ नायव्वा // 5 // व्याख्या - गाथात्रयं स्पष्टम् // 3 // // 4 // // 5 // एषां भङ्गानां नामान्याह -