________________ श्रीजिनकीर्तिसूरिणा विरचितः नमस्कारस्तवः स्वोपज्ञवृत्तिसमलङ्कृतः ॐ नमः सिद्धम् / जिनं विश्वत्रयीवन्द्य-मभिवन्द्य विधीयते / परमेष्ठिसूत्रव्याख्या, गणितप्रक्रियाऽन्विता // 1 // तत्रादावभिधेयगर्भा समुचितेष्टदेवतानमस्काररूपमङ्गलप्रतिपादकां गाथामाह - परमिट्ठिनमुक्कारं, थुणामि भत्तीइ तन्नवपयाणं / पत्थार 1, भंगसंखा 2, नट्ट ३-द्दिट्ठा 4 कहणेणं // 1 // व्याख्या - परमेष्ठिनोऽर्हदादयस्तेषां नमस्कारः श्रुतस्कन्धरूपो नवपदाष्टसम्पदष्टषष्ट्यक्षरमयो महामन्त्रस्तं भक्त्या स्तवीमि / तस्य नमस्कारस्य नवसङ्ख्यानां पदानां प्रस्तारो भङ्गसङ्ख्या नष्टमुद्दिष्टं आदिशब्दादानुपूर्व्यनानुपूर्व्यादिगुणनमहिमा च, एतेषां कथनेन // 1 // तत्रादौ प्रथमं व्यस्तमपि बहुवक्तव्यं प्रस्तारमुल्लङ्घय स्वल्पवक्तव्ये भङ्गपरिमाणे करणमाह - एगाईण पयाणं, गणअंताणं परुप्परं गुणणे / आणुपुव्विप्पमुहाणं, भंगाणं हुंति संखाउ // 2 // व्याख्या - इह गणः स्वाभिमतः पदसमुदायः / ततः एकादीनां पदानां द्विकत्रिकचतुष्कपञ्चकादिगणपर्यन्तानां स्थापितानां परस्परं गुणने-ताडने आनुपूर्व्यनानुपूर्व्यादिभङ्गानां सङ्ख्या स्युः / तथाहि -