________________ 161 श्रीयतिदिनचर्या अवचूर्णियुता अनुयोगे प्रारब्धे प्रत्याख्यानमपि नैव कारयति, अपिशब्दात् कथां च, यावत् तत् प्रतिक्रामति-परिपूर्णतां यावन्न गच्छति तावत् किमपि न करोति, इति-पूर्वोक्तप्रकारेण द्वितीया पौरुष्यपि परिपूर्णा भवति, उक्तं च"आरंभिय अणुओगं पच्चक्खाणं न दिज्जए जत्थ / अन्नस्स तत्थ वत्तामित्तस्सावि नाम का वत्ता ? // 1 // " // 59 // द्वितीया पौरुषी कथं भवतीत्याशङ्क्याह - छायापएहिं मुणिसंजुएहिं नंदट्ठबाहुधुवयंमि / लद्धं नयणविहूणं दलीकयं दिवसगयसेसं // 60 // छायापदैः-शरीरछायाचरणैः मुनिसंयुक्तैः-सप्तसहितैः नन्दाष्टबाहुध्रुवाकैः 289 अङ्कानां वामतो गति रिति श्रीधराचार्यः तथा एतस्मिन्नङ्केन भाजिते यल्लब्ध-यत् प्राप्तं तन्नयनविहून-उभयहीनं पश्चाद् दलीकृतं-अर्धीकृतं, अर्धे कृते सति यत् स्थितं तद्दिनमानं, यदि प्रहरद्वयादाक् तदा तावन्मात्रं दिनं गतं, यदि प्रहरद्वयादूर्ध्वं तदा तावन्मानं दिनं शेषं, तथाहि - छायापादाः पूर्वार्धम् सप्त, मुनिसहिताश्चतुर्दश 14, सार्धपौरुषी नन्दाष्टबाहु 289 ध्रुवाङ्के भाज्ये पूर्वाङ्केन भागः, लब्धं विंशतिः 20, एतन्नयनविहीनं-उभयहीनं, स्थितमष्टादश 18, एतच्च दलीकृतं स्थितं 9 नव, एवं गता घटी 9 पल 8, एवं यथार्ह कल्पना कार्या // 60 // दिनगतशेषप्रस्तावात् सार्द्धपौरुषीमप्याह - पोसे पोरसि सड्ढा नवपयपमाणदेहछायाए / पय इक्किक्का हाणी जा आसाढे पया तिन्नि // 61 // पौषे मासि नवपदप्रमाणया देहच्छायया सार्द्धपौरुषी भवति, ततः पौषतः एकैकपदहान्या यावदाषाढे त्रिपदा भवति-चरणत्रयरूपा छाया