________________ श्रीयतिदिनचर्या अवचूर्णियुता 133 एकोनपञ्चाशत्, एते एव अतीतानागतवर्तमानैः कालैर्गुणिताः सप्तचत्वारिंशत्शतं 147 भङ्गा भवन्ति, ते च प्रत्याख्यानभङ्गका ज्ञेयाः / उक्ताः प्रत्याख्यानभङ्गकाः, अधुना तच्छुद्धिमाह - सा च षोढा, यदाहुः - "सोही पच्चक्खाणस्स छव्विहा समणसमयकेऊहिं / पन्नत्ता तित्थयरेहिं तमहं वुच्छं समासेणं // 1 // " यथा श्रद्धानशुद्धिः 1 ज्ञानशुद्धिः 2 विनयशुद्धिः 3 अनुभाषणाशुद्धिः 4 अनुपालनाशुद्धिः 5 भावनाशुद्धिश्च 6, यदाहुः - "सा पुण सद्दहणा 1 जाणणा य 2 विणय 3 ऽणुभासणा चेव 4 / अणुपालणाविसोही 5 भावविसोही भवे छट्ठा 6 // 1 // " तत्र श्रद्धानशुद्धिमाह - "पच्चक्खाणं सव्वन्नुदेसियं जं जहिं जया काले / तं जइ सद्दहइ नरो तं जाणसु जाणणासुद्धि॥१॥" अथ ज्ञानशुद्धिमाह - "पच्चक्खाणं जाणइ कप्पे जं जंमि होइ कायव्वं / मूलगुण उत्तरगुणे तं जाणसु जाणणासुद्धि // 2 // " अथ विनयशुद्धिमाह - "कियकम्मस्स विसुद्धि पउंजई जो अहीणमइरित्तं / मणवयणकायगुत्तो तं जाणसु विणयसुद्धि तु // 3 // " अथ अनुभाषणाशुद्धिमाह"अणुभासइ गुरुवयणं अक्खरपयवंजणेहिं परिसुद्धं / पंअलिउडो अभिमुहो तं जाणसु भावणासुद्धिं // 4 // " अथ अनुपालनाशुद्धिमाह -