________________ नैषधीयचरिते अन्वयः-नलप्रणाली.."पिपासवः ते तदध्व-वीक्षार्थम् इव अनिमेषाः ( सन्तः) तस्य देशस्य आभरणीबभूवुः / टीका-नलः एव प्रणाली पयःपदवी जलनिर्गमनमार्ग इति यावत् ( 'द्वयो? प्रणाली पयसः पदव्याम्' इत्यमरः ) ( कर्मधा० ) तया मिलत् आगच्छत् (तृ. तत्पु० ) यत् अम्बुजाक्षीसंवादपीयूषम् ( कर्मधा० ) अम्बुजाक्ष्याः अम्बुजे कमले इव अक्षिणी ईक्षणे ( उपमान तत्पु० ) यस्याः तथाभूतायाः (ब० बी० ) य: संवादः वृत्तान्तः समाचार इति यावत् (10 तत्पु० ) एव पीयूषम् अमृतम् ( कर्मधा० ) तत् पिपासवः पातुमिच्छवः ( मधु-पिपासुवत् द्वि० तत्पु० ) ते इन्द्रादयो देवाः तस्य नलस्य अध्वनः मार्गस्य वीक्षार्थम् अवलोकनाय (ष० तत्पु० ) वीक्षाय इति चतुर्थ्यर्थ अर्थेन सह नित्यसमासः इवेत्युत्प्रेक्षायाम् अनिमेषाः न निमेषः नेत्रनिमीलनम् येषां तथाभूताः ( नन ब० वी० ) सन्तः तस्य देशस्य स्थानस्य यत्र तैः नलो दृष्ट आसीत् आभरणीबभूवुः अलंकारतां ययुः अर्थात् नलद्वारा आनीयमानं दमयन्त्याः समाचारं ज्ञातुमिच्छन्तः इन्द्रादयः तस्मिन् एव स्थाने तस्थुः, यत्र तेषां नलेन मिलनमभूत् // 3 // व्याकरण-प्रणाली प्रणल्यते अनयेति प्र+ /नल + घन ( करणे ) + ङीष् / अम्बुजम् अम्बुनि जायते इति अम्बु + जन् + डः। संवादः सम् +1 वद् + घम् ( भावे ) / पिपासवः पातुमिच्छव इति /पा+ सन्, द्वित्व, उ: ( कर्तरि)। वीक्षा वि + ईक्ष + अच् + टाप् / निमेषः नि + मिष् + घन् / आभरणीबभूवुः बनाभरणानि आभरणानि सम्पद्यमानानि बभूवः इति आभरण + च्विः , दीर्घ + /भू + लिट् / अनुवाद-नल-रूपी नाली से आने वाले कमलाक्षी ( दमयन्ती) के समाचार-रूपी अमृत के पान के इच्छुक वे ( देवता) उसकी वाट जोहने के लिए मानो बिना आँखें झपके उस स्थान को अलंकृत करते रहे ( जहाँ उनकी नल से भेंट हुई थी ) // 3 // टिप्पणी-जब तक नल दमयन्ती से उनकी प्रार्थना के उत्तर में सूचना नहीं ले आते तब तक उन्होंने यही उचित समझा कि 'वे आगे न बढ़ें, वहीं टिके रहें, जहाँ नल उन्हें मिले थे। वैसे देवताओं की आँखें स्वभावतः झपकती नहीं हैं किन्तु कवि ने यहाँ यह कल्पना की है कि मानो नल की वाट जोहने हेतु उनकी आँखें नहीं झपकी। इस तरह यह उत्प्रेक्षा है जिसका नल पर