________________ नवमः सर्गः स्वकर्मभिः // गीताकार का भी यही कहना है—यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् / तं तमेवैति कौन्तेय ! सदा तद्भाव-भावितः तणवत् मैं उपमा है / विद्याधर अतिशयोक्ति भी कह रहे हैं / "माशु" मसून में ( शसयोरभेदात् ) छेक अन्यत्र वृत्त्यनुप्राय है / // 147 // श्रुतिः सुराणां गुणगायनी यदि त्वद िमग्नस्य जनस्य किं ततः। स्तवे रवेरप्सु कृताप्लवैः कृते न मुद्वती जातु भवेत्कुमुद्वती // 148 / / अन्वयः -- श्रुतिः यदि सुराणाम् गुणगायनी ( अस्ति ) ततः त्वदध्रिमग्नस्य जनस्य किम् ? अप्सु कृता प्लवै: रवः स्तवे कृते अपि कुमुदती जातु मुद्वती न भवेत् / ___टीका-श्रुतिः वेदः यदि सुराणाम् देवानाम् इन्द्रादीनामिति यावत् गुणानां शौर्यादीनाम् गायनी गायिका अस्तीति शेषः ततः तहि तव अज्री पादौ (ष० तत्पु. ) तयोः मग्नस्य बुडितस्य त्वच्चरणानन्यरागिणः इत्यर्थः ( स० तत्पु० ) जनस्य ममेत्यर्थः किम् ? देवगुणगानेन मे नकिमपि प्रयोजनमित्यर्थः अहं त्वय्यनुरक्तास्मि, देवगुणस्तुतिश्रवणेन त्वदनुरागं त्यक्त्वा कथमपि देवानुरक्ता न भविष्यामीति भावः / अप्सु जले कृतः विहितः ( स० तत्पु० ) आप्लवः स्नानम् ( कर्मधा० ) यः तथाभूतः ( ब० वी० ) पुरुषः रवेः सूर्यस्य स्तवे स्तुती कृते विहिते अपि कुमुदती कुमुदिनी जातु कदाचिदपि मुद् आनन्दोऽस्या अस्तीति मुद्वती प्रसन्ना न भवेत् न स्यात् / कुमुदिनी खलु चन्द्रानुरागिणी भवति, रात्र्यपगमे कृतस्नानैः ब्राह्मणैः कृतां सूर्यस्तुति श्रुत्वाऽपि चन्द्रं विहाय कुमुदिन्याः सूर्येऽनुरागो यथा नोदेति, तथैव त्वाम् ( नलम् ) विहायेन्द्रादिदेवेषु वेदैः स्तूयमानेष्वपि सत्सु तेषु न मेऽनुराग उदेतीति भावः // 148 // ___ व्याकरण-श्रुतिः श्रूयते इति + + क्तिन् ( कर्मणि ) / गायती गायतीति गै+ ल्युट ( कर्तरि ) + ङीप् / आप्लवः स्तवः/प्लु, स्तु + अप् ( भावे ) / कुमुद्धती कुमुद् + मतुप, वत्व / कुमुद् को-पृथिव्यां ( रात्री) मोदते ( विकसति ) इति कु + /मुद् + क्विप् ( कर्तरि ) / मुदती मुद् + मतुप् वत्व + ङीष् / मुद् मुद्यते इति /मुद् + क्विप् (भावे ) / अनुवाद-"वेद यदि ( इन्द्रादि ) देवताओं का गुणगान करने वाला है तो तुम्हारे चरणों में मग्न हुई मेरा इससे क्या प्रयोजन ? जलस्नान किये