________________ नवमः सर्गः समानस्य समानेन सह सम्बन्धः सम्यक् भातीति भावः। यथा चोक्तम्-ययोरेव समं शीलं ययोरेव समं कुलम् / तयोत्री विवाहश्च न तु तुष्ट-वितुष्ट योः / ! 56 // व्याकरण-धर्मशीलया धर्म + शील् + णः + टाप / अतिथित्वम् इसके लिए पीछे ‘श्लोक' 49 देखिए / अवापितः अव+/आप् + णिच् + क्त ( कर्मणि ) / योग्य योगमहतीति योग + यत् अथवा युज्यते इति/युज + ण्यत् / अनुवाद-"हो सकता है कि उस धर्मराज को धर्मशील तुमने ( अपने ) हृदय का अतिथि बना रखा हो। यह परिपाटी मुझे भी अच्छी लगती है, क्योंकि योग्य के साथ योग्य का मेल शोभा देता है" // 56 // टिप्पणी-यहाँ आदि के तीन पदों में प्रतिपादित विशेष बात का चौथे पाद की सामान्य बात से समर्थन होने से अर्थान्तरन्यास है।' धर्म धर्मः तथा 'योग्ये योग्य' में छेक, अन्यत्र वृत्त्यनुप्रास है / / 56 // अजातविच्छेदलवै: स्मरोद्धवैरगस्त्यभासा दिशि निर्मल त्विषि। घतावधि कालममत्यशङ्किता निमेषवत्तेन नयस्व केलिभिः // 57 // अन्वयः-(हे भैमि ! ) अगस्त्य-भासा निर्मलत्विषि दिशि तेन ( सह ) अजातविच्छेद-लवैः स्मरोद्भवः केलिभिः अमृत्यु-शङ्किता ( सती ) त्वम् धृताधिम् कालम् निमेषवत् नयस्व / - टीका-(हे भैमि ! ) अगस्त्यः एतन्नामा दक्षिणे स्थितो नक्षत्रविशेषः तस्य भासा दीप्त्या ( ष० तत्पु० ) निर्मला उज्ज्वला ( तृ० तत्पु० ) स्विट कान्तिः ( कर्मधा० ) यस्यामिति तथाभूतायाम् (ब० वी० ) दिशि दिशायां दक्षिणदिशायामित्यर्थः सा हि यमस्य दिशा तेन यमेन सह न जातः संभूतः विच्छेदलवः व्यवधानलेशः ( कर्मघा० ) येषु तथाभूतैः ( ब० वी० ) विच्छेदस्य लवः ( ब० बी० ) स्मरः कामः तस्मात् उद्भवः उत्पत्तिः / पं० तत्पु० ) येषां तथाभूतैः (ब०वी०) केलिभिः क्रोडाभिः आलिङ्गनचुम्बनादिभिरितियावत् (केलिशब्द उभयलिङ्गः ) मृत्यः मरणम् तस्मात् शंकिता भीता (पं० तत्पु० ) न मृत्युशंकिता इत्यमृत्युशंकिता ( ना तत्सु० ) मृत्युभयरहिता सतीत्यर्थः त्वम् धुतः अपाकृतः अवधिः मर्यादा ( कर्मधा० ) यस्मात् तथाभूतम् ( ब० वी० ) कालम् निरवधिक समयम् शाश्वतकालमित्यर्थ: निमेषवत् क्षणमिव नयस्व अतियापयस्व / अन्येन सह परिणयं विना मृत्युरवश्यंभावी, यमेन सह परिणये तु विना मृत्युभयम् निरन्तरम् अनन्तकालम् विषयोपभोगं कुरुष्वेति भावः // 57 //