SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ 430 नैषधीयचरिते संसर्गे जाते सौ मां धक्ष्यतीति भयकारणादित्यर्थः ततः तस्मात् अग्नेः सकाशात् कथंचन केनापि प्रकारेण मन: स्वचित्तम् न निवर्त्यम् निवर्तनीयम् तस्मादनुरागो न उपसंहरणीय इत्यर्थः / यतः परीक्षणस्य सतीत्वासतीत्वपरीक्षायाःक्षणे काले तस्य अग्नेः वृत्ति: स्थितिः शतशः शतवारम् हिमेन तुषारेण उपमा तुलना (तृ तत्पु०) यस्याः तथाभूताः ( ब० वो०) हिमसमानेत्यर्थः निरूपिता दृष्टा। सीतादीनां सतीत्वपरीक्षायामग्नेः दाहकत्वाभावो रामायणे सुतरां प्रसिद्ध एव; यथा चोक्तं भोजप्रबन्धेऽपि—'सुतं पतन्तं प्रसमीक्ष्य पावके न बोधयामास पति पतिव्रता। तदाऽभवन् तत्पति भक्ति-गौरवाद् हुताशनश्चन्दनपङ्कशीतलः // त्वमपि सतीषु उत्तमा, अतः तस्माद् दाहभयं न कर्तव्यमितिभावः / / 55 // व्याकरण-ताप: तप घन ( भावे ) / शङ्का शङ्क + टाप् / निवत्यम् नि + Vवृत् + णिच् + ण्यत् / परीक्षणम् परि/ईक्ष् + ल्युट् ( भावे ) / वृत्तिः Vवृत् + क्तिन् ( भावे ) / उपमा उप + मा + अङ् ( भावे ) + टाप् / ___अनुवाद-“सतियों में मुख्य-भूत तुम्हें ( अपने ) शरीर के दाह की शंका के कारण किसी प्रकार भी उन ( अग्नि ) की ओर से मन नहीं हटा लेना चाहिए, ( क्योंकि ) परीक्षा-काल में उन ( अग्नि ) की स्थिति सैकड़ों बार हिमजैसी देखने में आई हुई 'है' // 55 // टिप्पणी-कारण बता देने से कायलिंग है। 'क्षण' 'क्षणे' में छेक अन्यत्र वृल्यनुप्रास है // 55 // स धर्मराजः खलु धर्मशीलया त्वयास्ति चित्तातिथितामवापितः / ममापि साधुः प्रतिभात्ययं क्रमश्चकास्ति योग्येन हि योग्यसंगमः / / 56 // अन्वयः स धर्मराजः धर्मशीलया त्वया चित्सातिथिताम् अवापितः अस्ति खलु / अयम् क्रमः मम अपि साधु प्रतिभाति; हि योग्येन योग्यसंगमः चकास्ति / टीका–स प्रसिद्धः धर्मराजः धर्मस्य राजा यमः धर्मशीलयति अभ्यस्यति चरतीति यावत् इति तथोक्तया ( उपपद तत्पु० ) त्वया दमयन्त्या चित्तस्य निज. मनसः अतिथित्वम् प्राघुणिकत्वम् अवापितः प्रापितः अस्ति खलु सम्भावनायाम् / त्वं धर्मशीला, स च धर्मशील इति सम्भवतः त्वं तस्मिन् अनुरज्यसे इति भावः / अयम् एष क्रमः परिपाटी मम अपि. साधुः समीचीनः प्रतिभाति प्रतीयते, हि यतः योग्येन सह योग्यस्य संगमः मेल: (10 तत्पु० ) चकास्ति शोभते, कुलशीलादिना
SR No.032785
Book TitleNaishadhiya Charitam 03
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year1979
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy