SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः 341 टीका-(हे दमयन्ति ! ) तव ते स्वयंवरः स्वयं पतिवरणरूपमहोत्सवः श्वः आगामि दिवसे भविता भविष्यति इति श्रुतिः वार्ता वृत्तान्तः इति यावत् (''श्रुतिः श्रोत्रेऽप्यथाम्नाये वार्तायां श्रौत्रकर्मणि' इति विश्व.) सुधा अमृतम् रसः द्रव: ( कर्मधा० ) तस्य सारात श्रेष्ठभागात् उत्तिष्ठति प्रभवतीति तथोक्ता ( उपपद तत्पु० ) चासो धारा प्रवाहः ( कर्मधा० ) इव हृदयानि संतपयन्ती आनन्दयन्ती तेषाम् नाकम् स्वर्गम् जषन्ते सेवन्ते इति तथोक्तानाम् ( उपपद तत्पु० ) स्वर्गवास्तव्यानाम् इन्द्रादिदेवानामित्यर्थः श्रुती कौँ अयासीत् प्राप्नोत् ते श्वस्तनं तव स्वयंवर-वृत्तान्तं श्रुतवन्तः इति भावः / / 85 / / व्याकरण-श्वः यास्कानुसार 'आशंसनीय-कालः' (पृषोदरादित्वात् साधुः) भविता भू + लुट् / श्रुतिः श्रूयते इति/श्रु + क्तिन् ( कर्मणि ) अथवा श्रूयतेऽनयेति क्तिन् ( करणे ) / सारोत्थ उत्तिष्ठतीति उत् + /स्था + क, स को पूर्वसवर्ण ( 'उदः स्थास्तम्भोः पूर्वस्य' 8 / 1 / 61 ) / संतपयन्ती सम् + /तप + णिच् + शतृ + ङीप् / 0 जुषाम् /जुष् + क्विप ( कर्तरि ) प० / अयासीत् /या + लुङ। अनुवाद-“( दमयन्ती ! ) तुम्हारा स्वयंवर कल होने वाला है—यह अमृतरस के सारभूत अंश से निकली धारा-जैसी हृदय को आनन्द देने वाली खबर उन स्वर्गलोक-वासियों ( इन्द्रादि देवताओं ) के कानों में पहुँची है / 85 / / टिप्पणी-'धारेव' में उपमा है। 'धारे' 'धार', 'विता' 'वेति' और 'श्रुतिः' 'श्रुतो' में छेक, अन्यत्र वृत्त्यनुप्रास है। समं सपत्नीभवदुःखतीक्ष्णैः स्वदारनासापथिकैमरुद्भिः। अनङ्गशौर्यानलतापदुःस्थैरथ प्रतस्थे हरितां मरुद्भिः / / 86 / / अन्वयः-अथ अनङ्ग स्थैः हरिताम् मरुद्भिः सपत्नी.. तीक्ष्णः स्वदारनासापथिकैः मरुद्भिः समं प्रतस्थे / टीका-अथ स्ववंवरवाश्रिवणानन्तरम् अनङ्गस्य कामस्य शौयम् विक्रमः (प० तत्पु० ) एव अनलः वह्निः तस्य तापेन ज्वरेण दुःस्थैः अस्वस्थैः ( तृ० तत्पु० ) हरिताम् दिशानाम् मरुद्भिः देवैः इन्द्रप्रभृतिभिः समानः पतिः यस्याः इति सपत्नी तस्याः (व० वी० ) भवतीति तथोक्तम् ( उपपद तत्पु० ) यत् दुःखम् अक्सादः ( कर्मधा० ) तेन तीक्ष्णः दुःसहैः स्वे स्वकीयाः ये दारा: पत्न्यः
SR No.032785
Book TitleNaishadhiya Charitam 03
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year1979
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy