________________ नैषधीयचरिते - अन्वयः-(हे दमवन्ति / ) भबतीम् अमोघम् अस्त्रम् अवाप्य मदान्धतया अनर्गल-चापलस्य मनोमुवः इति तेषु त्रिलोकी-तिलकेषु विक्रमकामचारः ( अस्ति ) / टोका-( हे दमयन्ति ! ) भवतीम् त्वाम् एव अमोघम् अव्यर्थम् अस्त्रम् आयुधम् अवाप्य लब्ध्वा मदेन गर्वेण अन्धतया अन्धत्वेन न अर्गलम् विष्कम्भः रोधकमिति यावत् यस्मिन् तथाभूतम् ( ना ब० वी० ) उच्छङ्खलमित्यर्थः यत् चापलम् चाञ्चल्यम् ( कर्मधा० ) तस्य मनोभुव: कामस्य इति पूर्वोक्तप्रकारेण तेषु त्रयाणां लोकानाम् समाहारः त्रिलोकी ( समाहार द्विगु ) स्वर्ग-मत्यं पाताललोकाः तस्याः तिलकेषु तिलकभूतेषु भूषणरूपेषु इन्द्राग्नियमवरुणेष्वित्यर्थः (10 तत्पु० ) विक्रमः शौर्यम् चासी कामचार: ( कर्मधा० ) कामेन चारः स्वेच्छया व्यवहारः ( तृ० तत्पु० ) देवेषु शौर्यप्रदर्शनं कामस्य स्वेच्छावार इत्यर्थः अस्तीति शेषः // 84 / / व्याकरण-अमोघम् न मोघम् मुह्यतीति/मुह + अच् ( कर्तरि ) कुत्वम् / अस्त्रम् अस्यते इति/अस् + ष्ट्रन् ( करणे)। अवाप्य–यहाँ अवाप्य का कर्ता काम है एवं अस्ति का कामचार है। इस तरह विभिन्नकर्तृकता में क्त्वा प्राप्त नहीं है अतः यहाँ अवाप्य स्थितस्य मनोभुवः यों योजना कर लीजिए। चापलस्य चपलस्य भाव इति चपल + अण् / मनोभुवः मनसो भवतीति मनस् +/भू + क्विप ( कर्तरि ) 0 / चारः चर + धन ( भावे)। __अनुवाद-"(हे दमयन्ती ! ) तुम्हें अचूक अस्त्र के रूप में प्राप्त करके गन्धि होने के कारण उच्छृङ्खल चाञ्चल्य अपनाये हुए कामदेव का उक्त प्रकार से उन तीनों लोकों के तिलकभूतों ( इन्द्रादि ) के प्रति शीयं-कर्म स्वेच्छाचार है / / 84 // टिप्पणी-यहाँ इन्द्रादि देवताओं पर तिलकत्वारोप और 'भवतीम्' पर अस्त्रत्वारोप होने से दो रूपकों की संसृष्टि है। 'लोकी' 'लके' में छेक, अन्यत्र वृत्त्यनुप्रास है। सारोत्थधारेव सुधारसस्य स्वयंवरः श्वो भविता तवेति / संतपंयन्ती दमयन्ति ! तेषां श्रुतिः श्रुती नाकजुषामयासीत् // 85 // अन्वयः-(हे दमयन्ति ! ) तव स्वयंवरः श्वः भविता इति श्रुतिः सुधारसस्य सारोत्थ-धारा इव हृदयानि संतपंयन्ती तेषाम् नाकजुषाम् श्रुती अयासीत् /