________________ सप्तमः सर्गः टीका-अथ अनन्तरम् मह्याः पृथिव्याः महेन्द्रः (10 तत्पु० ) महान इन्द्रः ( कर्मघा० ) अधिपतिः स नलः प्रेयसीम् प्रियतमाम् तस्याः प्रेयस्याः दमयन्त्या आलीनाम् सखीनाम् कुलम् समूहम् ( 10 तत्पु०) च दृशोः नयनयोः कामम् इच्छाम् अनतिक्रम्य इति यथाकामम् यथेच्छम् ( अव्ययी० ) उपहृत्य उपायनीकृत्य पुरः स्थापयित्वेत्यय: प्रमोदः प्रेयस्याः दर्शनेन प्रकृष्ट आनन्दश्व अद्भुतम् तत्सौन्दर्यदर्शनेन आश्चर्य चेति ताभ्याम् ( द्वन्द्वः ) संभृतेन पूर्णेन मनसा अन्तःकरणेन इदम् अग्रे वक्ष्यमाणं जगाद अकथयत् / प्रेयसी दमयन्तीम् तत्सखीञ्च विलोक्य तत्सौन्दर्यातिशयेन प्रमुदितश्चकितश्च नलो मनसि व्यचिन्तयदिति भावः // 9 // व्याकरण-इन्द्र इन्दतीति इद्-(ऐश्वर्ये )+रन् ( कर्तरि ) प्रेयसी अतिशयेन प्रिया इति प्रिय + ईयसुन् + ङीप् / काम: कम् + घन ( भावे ) / अद्भुतम् यास्कानुसार अभूतमिवेति ( पृषोदरादित्वात् साधुः ) / अनुवाद--इसके बाद पृथिवी के महान् इन्द्र वह ( नल) प्रियतमा और उसकी सखियों को ( अपनी ) आँखों के प्रति भेंट करके अतिशय आनन्द और आश्चर्य-भरे मन में बोले / टिप्पणी-'भृत' 'भृते' तथा 'मही' 'नहे' में छेक अन्यत्र वृत्त्यनुप्रास है / पदे विधातुर्यदि मन्मथो वा ममाभिषिच्येत मनोरथो वा। तदा घटेतापि न वा तदेतत्प्रतिप्रतीकाद्भुतरूपशिल्पम् // 10 // अन्वयः-यदि विधातुः पदे मन्मथः वा मम मनोरथः वा अभिषिच्येत, तदा अपि तत् एतत् प्रतिशिल्पम् घटेत न वा (घटेत ) / टीका-यदि चेत् विधातुः सर्वजगन्निर्मातुः ब्रह्मणः पदे स्थाने मन्मथ: कामः वा अथवा मम मे मनोरथः अभिलाषो भावना कल्पनेति यावत् अभिषिच्येत प्रतिष्ठाप्येत ब्रह्मणः जगन्निर्माणाधिकारः कामस्य मम कल्पनाशक्तेर्वा हस्ते आगच्छेत् चेदिति भावः, तदा अपि तद्यपि तत् अनिर्वचनीयम् एतत् पुरः स्थितम् प्रतीके प्रतीके इति प्रतिप्रतीकम् प्रत्यवयवम् ( अव्ययी० ) यत् अद्भुतम् आश्चर्यकरम् रूपम् सौन्दर्यम् तस्य शिल्पम् निर्माण-नैपुणी घटेत जायेत न वा घटेत / एतादृशं प्रत्यवयव-निर्माण-कौशलं न कामेन, न मे कल्पनया वापि निर्मातुं शक्यते किं पुनर्ब्रह्मणेति भावः // 10 // ध्याकरण-विधातु: विदधाति (निर्माति ) इति वि + /धा + तृच्