SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः 113 इन्द्र के मंत्री ( वृहस्पति ) की सूक्तियों को सुने हुए भी ( दमयन्ती के पाण्डित्य से ) आश्चर्य में सिर धुनने लगी थी॥ 108 // टिप्पणी-यहाँ दमयन्ती के पाण्डित्य के पीछे कवि का निजी दार्शनिक पाण्डित्य ही मुखरित हो रहा है, जिसके द्वारा उसने पूर्वजन्म-सिद्धान्त सिद्ध किया है / ध्यान रहे कि छठे सर्ग का यह सारा का सारा प्रतिपाद्य, कवि का स्वोपज्ञ है, स्वकल्पना-विलास है मूल का नहीं। 'बले' 'बाला' में छेक अन्यत्र वृत्त्यनुप्रास है। परेतभर्तुर्मनसेव दूती नभस्वतेवानिलसख्यभाजः। त्रिस्रोतसेवाम्बुपतेस्तदाशु स्थिरास्थमायातवतीं निरास्थम् // 109 // अन्वयः-तत् स्थिरास्थम् मनसा इव आशु आयांतवतीम् परेत-भर्तुः द्रतीम. ( स्थिरास्थम् ) नभस्वता इव ( आशु आयातवतीम् ) अनिलसख्यभाजा (दूतीम् ), ( स्थिरास्थम् ) त्रिस्रोतसा इव ( आशु आयातवतीम् ) अम्बुपतेः (दूतीम् अहम् ) निरास्थम् / टीका-तत् तस्मात् कारणात् अर्थात् यतोऽहं नलमेवाभिलषामि, स्थिरा दृढा आस्था विश्वासः धारणा वा यस्मिन् कर्मणि यथा स्यात्तथा ( व० वी० ) अहं दमयन्तीं स्ववशीकरिष्यामीति दृढविश्वासं कृत्वेत्यर्थः मनसा मानसेन इव मनसः शीघ्रगामित्वात् आशु शीघ्रम् आयातवतीम् परेतानाम् प्रेतानाम भात: स्वामिनः यमस्येत्यर्थः दूतीम् अहं निरास्थम् निराकृतवती इति क्रियान्वयः एवमेव स्थिरास्थम् नभस्वता वायुना इव वायोरपि शीघ्रगामित्वात आश आयातवतीम् अनिलस्य वायोः सख्यम् सख्युर्भावं मैत्रीनिति यावत् (10 तत्प०) भजतीति तथोक्तस्य ( उपपद तत्षु० ) अग्नेरित्यर्थः दूतीम् निरास्थम् एवमेव स्थिरास्थं त्रीणि स्रोतांसि धारा यस्याः तथाविधया (ब० वी० ) त्रिपथया गङ्गया इत्यर्थः इव तस्याः प्रवाहस्यापि शीघ्रगामित्वात् आशु आयातवतीम अम्बुपतेः अम्बूनां जलानां पत्युः स्वामिनः वरुणस्येत्यर्थः दूतीम् निरास्थम् / मनसि स्व-स्व-स्वामिनः कृते मद्वशीकरणस्य दृढधारणां कृत्वा क्रमशो मनसेव, वायूनेव. गङ्गास्रोतसेव वाहनैः आयाताः यम-वह्नि-वरुणानां दूतीरहं तदानीं दूरादेव निराकरवम् , ताभिः वार्तालापोऽपि न कृतः, त्वया सह तु इन्द्रप्रति गौरवात् कियत्कालं वार्तालापः कृत इतिभावः // 109 /
SR No.032785
Book TitleNaishadhiya Charitam 03
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year1979
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy