SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ तृतीयसर्गः टोका-सुवर्णस्य शंलात् पर्वतात सुमेरोरित्यर्थः तूर्ण शीघ्रम् अवतीर्य अवरुह्य स्वहिनी भाकाशगङ्गा मन्दाकिनीति यावत् तस्या यद् वारि जलं तस्य कर्णः शीकरैः ( सर्वत्र प० तत्पु० ) अवकोण: व्याप्त : ( तृ० तत्पु०) चामरैः गौरवर्णत्वात् चमरीपुच्छः सह बद्धं कृतम् (तृ० तत्पु० ) सख्यं सख्युमावा मैत्रीति यावत् (कर्मधा० ) यस्तथाभूतैः ( ब० ब्रो० ) पक्षः पतत्रैः स्मरस्य कामस्य सुरतस्येति यावत् या केलिः क्रीडा ( 10 तत्पु० ) तस्य काले समये (10 तत्पु० ) सुरतावसानसमये इत्यर्थः तम् नृपं नलं बीजयामः पक्षाभ्यां बीजनं कृत्वा तत्सुरतखेदमपनयाम इति भावः // 22 // व्याकरण-तूर्णम्-Vवर +ऊठ / वाहिनी वाहः ( वहनम् ) अस्यास्तीति वाह+इन+ डीप् / सख्यम् सखि+यत् / अनुवाद-सुवर्ण-पर्वत ( सुमेरु ) से शीघ्र नीचे उतर कर आकाश-गंगा ( मन्दाकिनी ) के जल. कपों से पूर्ण तथा ( श्वेतता में ) चाँवरों के साथ मित्रता गाँठे हुए पंखों से हम रति-क्रीडा के समय उस राजा नल को हवा किया करते हैं // 22 // टिप्पणी-इस श्लोक में कवि नल का स्वर्भोग बता रहा है। यहाँ पंखों को चौवरों के साथ मित्रता गाँठे बताना लाक्षणिक प्रयोग है। दण्डी के अनुसार इसका सादृश्य में पर्यवसान होता है, इसलिए उपमा है / 'केलि' 'काल' में छेक और अन्यत्र वृत्त्यनुपास है। क्रियेत चेत् साधुविभक्तिचिन्ता व्यक्तिस्तदा सा प्रथमामिधेया। या स्वौजसा साधयितुं विलासैस्तावरक्षमानामपदं बहु स्यात् // 23 // अन्वयः-साधु विभक्ति-चिन्ता क्रियेत चेत्, तहिं सा व्यक्तिः प्रथमा अभिधेया स्यात् , या स्वौजसा विलासैः बहु अनाम-पदम् तावत् साधयितुम् क्षमा स्यात् / टोका-साधूनां सज्जन-पुरुषाणां या विभक्तिः विभागः तस्याः चिन्ता विचारः ( उभयत्र ष० तत्पु०) क्रियेत विधीयेत चेत् के के साधवः सन्तीति गणना यदि क्रियतेत्यर्थः, तहि सा नलाख्या व्यक्तिः प्रथमा प्रथमस्थानीया अभिधेया वाच्या स्यात् साधु-पंक्त्यां नलः सर्वाग्रे तिष्ठतोति भावः / या नल-ख्यव्यक्तिः स्वस्य आत्मनः यानि ओजांसि तेजांसि प्रतापा इति यावत् तेषां (प० तत्पु०) विलासैः कायः बहु अनेकानि अनाम-पदम् जातावेकवचनम् नमनं नाम प्रणमनं न नामः येषां तथाभूतानाम् अनामानाम् विरोधिनामित्यर्थः (ब० वी० ) पदानि स्थानानि देशानित्यर्थः तावत् पूर्णतया साधयितुं स्ववशीकर्तु क्षमा समर्था स्यात् स्वशौर्यबलेन शत्रन् विजेतुं क्षमेति भावः। अत्र शब्द-शक्त्या अपरोऽप्यों व्यज्यते, तद्यथा- साधु सम्यक्-प्रकारेण यथा स्यात्तथा विभक्तीनां सुपा चिन्ता विचारणा क्रियेत चेत् तहिं सा व्यक्तिः प्रथमाभिधेया प्रथमेति अभिधेयं संशा यस्यास्तथाभूता (व० वी० ) अस्तीति शेषः, या प्रथमा-विभक्तिः सुः च औः च जस् च तेषाम् (इन्द्र ) सु औ-नस् प्रत्ययानामित्यर्थः विलासैः वचित् विसर्गलोपः क्वचित् आम् आदेशः क्वचित् शीमावः इत्यादिभिः बहुमिः प्रकारैः रित्यर्थः बहु बहूनि नाम नामानि प्रातिपदिकानीत्यर्थः पदं पदानि सुबन्तानि साधयितुं निष्पादयितुं तावत् अतितरां क्षमा समर्था स्यात् सु-औ-जस्-प्रत्ययः प्रथमा विमक्तिः प्रातिपदिकशब्दान् पक्षीकरोति ययोक्तम् 'सुप्तिङन्तं पदम्' (11414 ) - सुबन्तं तिङन्तं च पदसं स्यादिति मावः / / 23 / /
SR No.032784
Book TitleNaishadhiya Charitam 02
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year
Total Pages402
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy