________________ द्वितीयसर्गः अन्वयः-विधु-दीधितिजेन पयस नैषध-शोलशोतलम् शशिकान्तमयम् यत्पथम् तपागमे कलितोत्रः आतपः न तपति स्म / टीका-विधुश्चन्द्रः तस्य या दीक्षितयः किरणाः (10 तत्पु० ) ताभ्यः जायते इति तज्जम (उपपद तत्पु० ) तेन पयसा जलेन नैषधस्य नलस्य यत् शीलं स्वमावः (10 तत्पु० ) तद्वत् शीतल शीतम् (उपमानतत्पु०) शशिकान्ताश्चन्द्रकान्तमपय एव शशिकान्तमयः तम् यस्या नगर्याः पन्यानम् (10 तरपु० ) तपस्य ग्रीस्मस्य आगमेऽपि कलिवत् कलिकालवत् तीव्रः प्रचण्डः (उपमानतरपु०) भातपो धर्मः न तपति स्म नोष्णीकरोति स्म / दिवा सूर्येण तप्ता अपि चन्द्रकान्तमय-पथाः रात्री चन्द्रोदये सवन्तो लोकाय शैत्यं ददति स्मेति भावः / / 94 // म्याकरण-नैषधः इसके लिए श्लो० 50 देखिए। शीतलम् शीतमस्यास्तीति शीत+लच (मतुबर्थीय ) / तपः, भातपः आसमन्तात् तपतोति आ+Vतष+अच् ( कर्तरि ) / यरपथम् समास में पथिन् शब्द से समासान्त अप्रत्यय / अनुवाद-चन्द्रमा की किरणों से उत्पन्न बल द्वारा नल के स्वभाव-जैसे शीतल चन्द्रकान्त मपियों से बने जिस नगरी के मार्ग को कलिकाल-जैसा कठोर आतप ग्रीष्म में (मी) गर्म नहीं कर पाता था // 14 // टिप्पणी—यहाँ भी पूर्ववत् असम्बन्धे सम्बन्धातिशयोक्ति, सम्बन्धे असम्बन्धातिशयोक्ति, विशेषोक्ति और उदात्त-इन सबका संकर है, जिसके साथ नैषध-'शीलशीतलम् , कलि-तीवः' इन दो उपमाओं को संसृष्टि है। शब्दालंकार वृत्त्यनुपास है। परिखावलयच्छलेन या न परेषां ग्रहणस्य गोचरा / फणिभाषितभाष्यफक्किका विषमा कुण्डलनामवापिता // 95 // अन्वयः-या परिखा-वलय-च्छलेन कुण्डलनाम् अवापिता ( सती ) परेषाम् ग्रहणस्य न गोचरा विषमा फणिमाषित-भाष्य-फक्किका अस्तीति शेषः। टीका-या नगरी परिखायाः नगर्याः प्राकारस्य पश्चात्-स्थितस्य जलपूर्णगर्तस्य वलयस्य वेष्टनस्य छलेन व्याजेन ( उभयत्र प. तत्पु० ) कुण्डलनाम् गोलाकार-रेखाम् अवापिता प्रापिता सती परेषा शत्रणाम् अथ च भाष्यकारातिरिक्तविदुषां ग्रहणस्य आक्रमणस्य अथ च ज्ञानस्य न गोचरा विषयः विषमा कठिना अथ च दुर्बोधा फणी शेषनागावतारभूतः पतञ्जलिः तेन माषितं प्रोक्तं रचितमिति यावत् ( तृ० तत्पु० ) यद् भाष्यं पाणिनिसूत्रव्याख्यानं ( कर्मधा० ) तस्य फक्किका कठिनस्थलमित्यर्थः अस्तीति शेषः। यथा पतञ्जलिमाष्यीयः फक्किका-ग्रन्थः गोलरेखावृतः, परेषां ( अन्यविदुषाम् ) ग्रहणस्य बोधस्य) न गोचरः विषमश्चस्ति तथैव कुण्डिनपुरी गोल परिखया आवृता परेषां (शत्रणाम् ) ग्रहणस्य (स्वाधीनत्वस्य ) न गोचरा विषमा चास्तीति भावः // 95 // ज्याकरण-परिखा इसके लिए पीछे 76 वा श्लो० देखिए / कुण्डलान कुण्डलं गोलाकार करोतीति (नामधा० ) कुण्डक+णिच्+युच् +टाप् / अवापिता अव+Vाप् + णिच्+क्तः (कमपि ) /