________________ पञ्चमसर्गः गच्छता पथि विनैव विमानं व्योम तेन मुनिना विजगाहे / साधने हि नियमोऽन्यजनानां योगिनां तु तपसाऽखिलसिद्धिः // 3 // अन्वय-विमानं विना एव पथि गच्छता तेन मुनिना व्योम विनगाहे; हि साधने अन्य-जनानाम् नियमः, योगिनाम् तु तपसा अखिल-सिद्धिः ( भवति ) / ... टीका-विमानं वायुयानम् विना अन्तरेण पथि मागें गच्छता व जता तेन प्रसिद्धन मुनिना ऋषिणा नारदेन व्योम आकाशम् विजगाहे आलोडितम् प्रविष्टमित्यर्थः; हि यतः साधने उपकरणे अन्ये च ते जनाः लोकाः ( कर्मधा० ) तेषाम् नियमः व्यवस्था अन्ये लोकाः विना अश्वादिसाधनेन गन्तुं न पारयन्तीति नियमोऽस्तीत्यर्थः, तु किन्तु योगिनाम् तपस्विनाम् तपसा तपस्यया, तपोवलेन योगशक्त्येतियावत् अखिला सकला सिद्धिः भवति, सर्वकार्याणि सिद्धयन्तीति मावः // 3 // व्याकरण-गच्छता-/गम् + शतृ तृ०। विजगाहे वि+/गाह्+लिट् / सिद्धः /सिध् +क्तिन् ( मावे ) / अनुवाद-विमान के बिना ही मार्ग में जाते हुए वे मुनि ( नारद ) आकाश में प्रवेश कर गए, कारण यह है कि अन्य ( साधारण ) लोगों के लिए साधन का नियम होता है, किन्तु योगियों को तप द्वारा ही सब सिद्धि हो जाती है // 3 // टिप्पणी-देवता के अतिरिक्त नारद ऋषे महान् योगो भी थे। योग से जब अणिमादि शक्तियों का विकाश हो जाता है, तो योगी के लिए कोई भी बात असंभव नहीं रहती। उत्तरार्ध में कही इस सामान्य बात का पूर्वाध में कही नारद के विना विमान से ही आकाश जाने की विशेष बात का समर्थन किया गया है, इसलिए अर्थान्तरन्यास अलंकार है। किन्तु विद्यावर यहाँ विना विमान के जाने में विशेषोक्ति ( ? विभावना ) और उत्तरार्ध में कारण बनाने से काव्यलिंग कहते हैं / 'मानं' 'मुनि' में छेक और अन्यत्र वृत्त्यनुप्रास है। खण्डितेन्द्रमवनाद्यमिमानॉल्लङ्घते स्म मुनिरेष विमानान् / अर्थितोऽप्यतिथितामनुमेने नैव तत्पतिभिरघ्रिविनम्रः // 4 // अन्वयः-एष मुनिः खण्डिते. 'मानान् लङ्घते स्म / अधि-विनम्रः तत्पतिभिः अथितः अपि अतिथिताम् न एव अनुमेने। ___टीका-एष मुनिः नारदः खण्डितः निराकृतः इन्द्रभवनाचभिमानः ( कर्मधा.) इन्द्रस्य भवनं गृहम् ( 10 तत्पु० ) आदी येषां तथाभूतानाम् (ब० वी० ) अभिमानः गर्वः (10 तत्पु.) यः तथाभूताम् ( 10 वी० ) शोभया देवगृहातिशायिन इत्यर्थः विमानान् वायुयानानि लङ्घतेस्म अलङ्घयत्, विमानान् अतिक्रान्तवानित्यर्थः। अङ्घयोः चरणयोः विनम्रः प्रणतः ( स० तत्पु०) सेषाम् विमानानाम् पतिभिः स्वामिभिः विमानस्थितदेवैरित्यर्थः ( 10 तत्पु० ) अर्थितः प्रार्थितः असि नारदः अतिथिताम् आतिथ्यं न एव अनुमेने स्वीचकारेत्यर्थः 'अस्माकं विमाने आरुह्यताम् पातिथ्यं च गृह्यतामिति विमानस्थदेवतानां विनम्रां प्रार्थनां नारदो नाङ्गीकृतवानिति मावः // 4 //