SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ 28. चतुर्थसर्गः श्रीहर्ष कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः सुष्वे जितेन्द्रियचयं मामल्लदेवी च यम् / तुर्यः स्थैर्यविचारणप्रकरणभ्रातयंयं तन्महा काव्येऽत्र न्यगलनलस्य चरिते सर्गो निसर्गोज्ज्वलः // 123 // अन्वय-कविराज..."पूर्ववत ; स्थैर्य.. भ्रातरि तन्महाकाव्ये अत्र नलस्य चरिते निसर्गोज्ज्वलः तुर्यः सर्गः व्यगलत् / टोका-पूर्वार्धस्य पूर्ववदेव व्याख्या शेया स्थैर्यस्य पदार्थानां स्थिरत्वस्य विचारणस्य विवेचनस्य प्रकरणम् ग्रन्थः तस्य भ्रातरि सहोदरे ( सर्वत्र प० तरपु० ) तस्य श्रीहर्षस्य महाकाव्ये ( 10 तत्पु० ) अर्थात् श्रीहर्षेण 'नैषधीयचरितं' महाकाव्यम् रचितम्, 'स्थैयविचारप्यप्रकरणम्' अपि रचितम् , अतः योरेककर्तृकत्वेन परस्परं सहोदरभावः, नलस्य चरिते निसर्गेण स्वमावतः उज्ज्वलः सुन्दरः, अथवा वियोगशृंगारात्मकः ( 'शङ्गारः शुचिरुज्वलः' इत्यमरः) तुर्यः चतुर्थः सगों व्यगलत् समाप्त इत्यर्थः / इति मोहनदेवपन्त-विरचितायां 'छानतोषिश्याम' चतुर्थसर्गः समाप्तः / .. व्याकरण-तुर्यः चतुर्णा पूरण इति चतुर+ यत् और च का लोप ( 'चतुरश्छयतो चलोपश्च')। अनुवाद-कविराज उत्पन्न किया, 'स्थैर्यविचारपप्रकरण' के भाई, उस (श्रीहर्ष) के महाकाव्य नैषधचरित का स्वभावतः उज्ज्वल चौथा सर्ग समाप्त हुआ। टिप्पणी-श्रीहर्ष द्वारा लिखित 'स्थैर्यविचारणप्रकरण' के सम्बन्ध में हमारी भूमिका देखिए / 'नैषधीयचरित' के चतुर्थसर्ग का अनुवाद और टिप्पणी समाप्त।
SR No.032784
Book TitleNaishadhiya Charitam 02
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year
Total Pages402
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy