________________ नैषधीयचरिते चाहिए था, न कि अमृत शब्द से, भले ही वे पर्यायशब्द क्यों न हो। साहित्यिकों ने इसे दोष मना है। भुवनमोहनजेन किमेनसा तव परेत ! बभूव पिशाचता ? / यदधुना विरहाधिमलीमसाममिभवन् भ्रमसि स्मर ! मद्विधाम् // 83 // अन्वय-हे परेत स्मर ! भुवन-मोहनजेन एनसा तव पिशाचता बभूव किम् ? यत् अधुना विरहाधि-मलीमसाम् मद्विधाम् अमिमवन् ( त्वम् ) भ्रमसि / टीका-परेत प्रेत स्मर काम ! भुवनानाम् त्रिजगताम् यत् मोहनम् अचेतनीकरणम् ( 10 तत्पु० ) तस्माज्जायते इति तथोक्तेन ( उपपद तत्पु० ), एनसा अधेन पापेनेति यावत् ( 'कलुषं वृजिनैनोऽघम्' इत्यमरः ), तव ते पिशाचता पिशाचयोनिरित्यर्थः बभूव जाता किम् ? पापादेव लोकाः पिशाचत्वं प्राप्नुवन्तीति भावः। यत् यस्मात् अधुना इदानीम् निजपिशाचावस्थायामित्यर्थः विरहस्य वियोगस्य य प्राधिः मानसी व्यथा ( ष. तत्पु०) ('पुंस्याधिर्मानसी व्यथा' इत्यमरः) तेन मलीमसाम् मलिनाम् वैवर्ण्य प्राप्तामिति यावत् अहम् इव विधा प्रकारः ( उपमान तत्पु० ) यस्याः तथाभूताम् (ब० वी०) मत्सदृशी विरहिणीमित्यर्थः अमिभवन् पोडयन् भ्रमसि भ्राम्यसि / पिशाचो हि बालकान् स्त्रीश्चाविश्येतस्ततो भ्रमति / त्वत्तुल्यो महापापी कोऽपि नास्तीति मावः // 83 // व्याकरण-परेतः परा=परलोकम् +vs+क्त ( कर्तरि ) / मोहनम् मुट्+णि+ ल्युट ( भावे ) / मोहनजेन मोहन+/जन्+ड ( कर्तरि ) / मलीमसाम् मल+ ईमसच (मतुबर्थ ) / अनुवाद-हे प्रेत कामदेव ! ( तीनों ) भुवनों को बेहोशी में डाल देने के कारण उत्पन्न हुए पाप से तुझे पिशाच योनि मिली क्या, जो कि तू अब विरह की वेदना से मलिन ( पीली ) पड़ी हुई मुझ जैसी ( विरहिणी ) को सताता हुआ घूमता-फिरता रहता है ? / / 83 / / टिप्पणी-विद्याधर ने यहाँ उत्प्रेक्षा कही है जिसका वाचक 'किम्' शब्द है, मानो लोगों की बुराई करके अर्जित अपने पापों से तू भूत-पिशाच बना हुआ है, तभी तो हम-जैसियों पर चिपट कर सताता रहता है / 'मसा' 'मसि' में छेक और अन्यत्र वृत्यनुपास है। बत ददासि न मत्युमपि स्मर ! स्खलति ते कृपया न धनुः करात् / अथ मतोऽसि ! मृतेन च मुच्यते न किल मुष्टिरुरीकृतबन्धनः / / 84 // अन्वयः-हेस्मर ! मृत्युम् अपि न ददासि बत ! कृपया ते करात् धनुः न स्खलति / अथ (वम्', मृतः असि; मृतेन खलु उरीकृतबन्धनः मुष्टिः न मुच्यते।। टीका-हे स्मर काम ! स्वम् मृत्युम् मरणम् अपि न ददासि वितरसि हितकरणस्य वार्ता स्वास्ताम् तावत्, बत खेदे; कृपया दयया ते करात् हस्तात् धनुः चापं न स्खलति पतति, दयाकारणात् त्वं मारणाद् विरम्य स्वकरगतं चापं न त्यजसीति भावः। अथ अथवा त्वम् मृतः अवगतप्राणः असि, मृतेन निष्प्राप्येन खलु निश्चयेन उरीकृतम् अङ्गीकृतं बन्धनं येन तथाभूतः