________________ चतुर्थसर्गः 249 इति विधोर्विविधोक्तिविगर्हणं व्यवहितस्य वृथेति विमृश्य सा। अतितरां दधती घिरहज्वरं हृदयमाजमुपालमत स्मरम् // 74 // अन्वय-इति अतितराम् विरह-ज्वरम् दधती सा 'व्यवहितस्य विधोः विविधोक्कि-विगर्हणम् पृथा' इति विमृश्य हृदयमाजम् स्मरम् उपालभत / ____टोका-इति एवं प्रकारेण अतितराम अत्यर्थम् विरहेण वियोगेन ज्वरम् विरहजनिततापमित्यर्थः (तृ० त:पु०) दधती धारयन्ती सा दमयन्ती व्यवहितस्य विप्रकृष्टस्य दूर स्थितस्येति यावत् वियोः चन्द्रमसः विविधाः नानाप्रकाराः याः उक्तयः वचनानि ( कर्मधा० ) ताभिः विगहणम् उपालम्मः वृथा व्यर्थम् इति विमृश्य विचार्य हृदयं भजतीति तथोक्तं ( उपपद तत्पु० ) हृदयस्थितमित्यर्थः स्मरम् कामम् उपालभत गर्हितवती / सुदूरवर्ती चन्द्रमा उपालम्भं शृणोति न वा शृयोतीति हृदयनिकटे स्थित स्मरम् कि नोपालमे इति भावः // 74 // __व्याकरण-अतितराम् अति+तरप् + आम् ( स्वार्थे ) / व्यवहितस्य वि+अव+Vधा+ क्त ( कमणि ) धा को हि / मा जम् /भज् + क्विप् ( कर्तरि ) / अनुवाद-बड़ा भारी विरह-जर रखती हुई वह ( दमयन्तो) यह सोचकर कि सुदूर स्थित चन्द्रमा को फटकारना वेकार है, हृदय स्थित कामको फटकारने लगी / / 74 / / टिप्पणी-जो सामने है ही नहीं, उसकी खबर क्या लेना / सब बेकार है। पास ही में जो स्थित है. उसकी खबर ली जाय, तो कुछ न कुछ मतलब बनेगा ही। 'विधोर, विधो' में छेक और अन्यत्र वृत्त्यनुपास है। हृदयमाश्रयसे बत मामकं ज्वलयसीत्थमनङ्ग ! तदेव किम् ? स्वयमपि क्षणदग्धनिजेन्धनः क्व भवितासि ? हताश ! हुताशवत् // 75 // अन्वय-हे अनङ्ग ! मामकम् हृदयम् आश्रयसे, तत् एव इत्यम् किम् ज्वलयसि ? क्षण-दग्धनिजेन्धनः हे हताश ! हुताशवत् (त्वम् ) स्वयम् अपि क्व भवितासि ? टीका-न अङ्गं शरीरं यस्य तत्सम्बद्धौ ( नत्र ब० ब्रो० ) हे काम मामकम् मदीयं हदयम् स्वान्तम् प्राश्रयसे अधितिष्ठप्ति, तत हृदयम् एव इस्थम् एवं प्रकारेण किम् कस्मात् ज्वलयसि दहसि ? पणे निमिषमात्रे दग्धम् प्लुष्टम् ( स० तत्पु.) निजम् स्वकीयम् इन्धनम् मद्धृदयरूपम् एषः ( सर्वत्र कमंधा० ) येन तथाभूतः (ब० बी०) हता नष्टा पाशा अभिलाषः ( कर्मधा०) यस्य तत्सम्बुद्धौ (ब० वी० ) हे हताश, दुर्बुद्धे हुताशः वह्निः तद्वत् त्वम् दग्धेन्धना ग्निवदित्यर्थ स्वयम् आत्मना अपि क्व कुत्र भवितासि भविष्यसि ? न क्वापीति काकुः / अयं मावः यथा स्वेन्धन: दग्ध्वाऽग्निः स्वयं नश्यति तथैव मम हृदयं दग्ध्वा स्वमपि स्वयं नंक्ष्यसीति मूढः किनावबुद्धयसे / 75 // व्याकरण-मामकम् अस्मत् को ममक आदेश होकर अण ( तवक-ममकावेकवचने 4 / 3 / 3 ) / इस्थम् इदम् +थम् / इन्धनम् इध्यते (ज्वाल्यते ) इति Vइन्ध+ण्युट् / हुताशः हुतम् अश्नातीति हुत+ अ +अ ( कर्मणि ) / मविवासि/भू+लुट् /