________________ तृतीयसर्गः तुल्यावयोमूर्तिरभून्मदीया दग्धा परं सास्य न ताप्यतेऽपि / इत्यभ्यसूयन्निव देहतापं तस्याऽतनुस्त्वद्विरहाद्विधत्ते // 102 // अन्वयः-आवयोः मूर्तिः तुल्या अभूत् ; मदीया दग्धा; परम् अस्य सा ताप्यते अपि न, इति अभ्यसूयन् इव अतनुः स्वद्-विरहात् तस्य देह तापम् विधत्ते / टीका-आवयोः नलस्य मम च मूर्तिः शरीरम् तुल्या सौन्दयें समाना अभूत् आसीत् मदोया 'मामकोना मूर्तिः दग्धा मस्मीकृता महादेवेनेति शेषः, परं किन्तु अस्थ नलस्य सा मूर्तिः ताप्यते अपि न केनापि तापमपि न प्राप्यते दहनस्य तु वातव का, इति हेतोः अश्यसूयन् ईय॑न् इव अतनुः न तनुः शरीरं यस्य तथाभूतः ( नम् (ब० बी० ) अनङ्गः काम इति यावत् तव विरहः वियोगः त्वविरहः (पं० तत्पु० ) तस्मात् तस्य नलस्य देहस्य शरीरस्य तापं संतापं विधत्ते कुरुते / नले त्वन्मनोऽमिलषितं सिद्धमेवेति मावः / / 102 // ग्याकरण-भावयोः नलस्य मम चेति एकशेष ( 'त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिध्यते')। मूति: मूर्छ +क्तिन् / मदीया ममेयमिति अस्मत् +छ, मदादेश / अभ्यसूयन् अमि+ असूय+या+शतृ ( कण्ड्वादि)। अनुवाद-हम दोनों की देह ( सौन्दर्य में ) एक-जैसी थी। मेरी ( तो) जल गई, परन्तु उसकी तपाई भी नहीं जा रही है-इस कारण खार खाता हुआ जैसा अनङ्ग तुम्हारे विरह के कारण उसको देह तपा रहा है / / 102 / / / टिप्पणी-यहाँ 'अभ्यसूयन्निव' में उत्प्रेक्षा है। 'ताप्यतेऽपि' में अर्यापत्ति है। 'ताप्य' 'तापं' में छेक और अन्यत्र वृत्त्यनुप्रास है। लिपि दृशा मित्तिविभूषणं स्वां नृपः पिबन्नादरनिनिमेषः / चक्षुरैरार्जितमात्मचक्षरागं स धत्ते रचितं त्वया नु // 103 // अन्वयः-(हे भैमि ) स नृपः दृशा मित्ति-विमूषणम् लिपिम् वाम् आदर-निनिमेषः सन् पिबन् चक्षुर्झरैः अपितम् त्वया रचितम् नु आत्म-चक्षुरागम् धत्ते। टीका-(हे भैमि, ) स नृपः राजा नलः दृशा दृष्टया भित्तः कुड्यस्य विभूषणम् अलङ्कार-भूता (10 तत्पु० ) लिपि लिपिरूपाम् मालिखितां चित्रितामिति यावत् वाम् आदरेण औत्सुक्येनेत्यर्थः निनिमेषः (त० तत्पु०) निर्गतः निमेषः नेत्रसंकोचो यस्मात्तथाभूतः ( प्रादि ब० वी०)सन् पिवन् पानविषयोकुर्वन् आलोकयन्निति यावत् आत्मनः स्वस्य चक्षुषोः नयनयोः निनिमेषत्वात् बायमानैः शरैः अश्रु-प्रवाहैः ( 10 तत्प०) अपितं चक्षुषोः रागं लालिमानम् ( 10 तत्पु० ) त्वया रचितं निर्मितं नु इव चक्षुषोः रागम् अनुरागं नयन-प्रीतिमित्यर्थः धत्ते विमति / सोत्कण्ठं चित्रमयीं त्वां दर्श-दर्श निनिमेषस्व कारणाज्जायमानश्चक्षरागः ( लालिमा) वत्कृत-चक्षुरागः (अनुरागः ) इव प्रतीयते इति भावः / दशसु कामदशासु प्रथमदशा चक्षुरागः प्रोक्तः // 103 // . व्याकरण-शा दृश्यतेऽनयेति /दृश् +विप् ( करणे ) त०। चरागम् सन्धि में चक्षु के उ को ( 'ठूलोपे पूर्वस्य दोषोंडणः' (6 / 3 / 111 ) से दीर्घ हो रहा है।