________________ प्रथमः सर्गः अन्वयः-असौ वियोगिनीम् प्रियस्मृतेः स्पष्टम् उदोतकण्टकाम् फलस्तन...शुगाम् दाडिमीम् ऐक्षत / / 83 // टीका-प्रसौनलः वयः पक्षिणः ('नगौको-वाजि-विकिर-वि-विष्किर-पतत्त्रयः' इत्यमरः) ते: योगः=संयोगः संसगोंऽस्या अस्तीति वियागिनी अथांत शुकादिपक्ष्यधिष्ठिता ताम् (नायिकापक्षे) वियोगः प्रियतमस्य विरहोऽस्या अस्तीति विरहिणीत्यर्थः ताम् प्रियम्=दोहदम् धूपधूमादिकम् तस्य स्मृतेः ( लक्षपया) प्राप्ते ( 10 तत्पु० ) स्पष्टम् स्फुटम् यथा स्यात्तथा उदीताः प्रादुर्भूताः कण्टकाः= कण्टकशब्दोऽत्र फलपुष्पाणामपि उपलक्षकः ( कर्मधा०) यस्यां तयाभूनाम् (ब० वी०), (नायिका-पक्षे ) प्रियस्य-प्रियतमस्य स्मृतःस्मरणात् स्पष्टम् उदीताः उद्गताः कण्टकाः रोमान्चा इत्यर्थः यस्यास्ताम् ('वेणौ दुमाङ्ग रोमाञ्चे क्षुद्रशत्रौ च कराटकः' इति वैजयन्ती) फल-फलानि =दाडिमानि स्तना-कुचा व ( उपमित-तत्पु० ) तेषां स्थाने-प्रदेशे (10 तत्पु० ) विदीर्णम = स्फुटितम् ( स० तत्पु०) (दाडिमानि परिपक्वावस्थायां यत्र-तत्र स्थानेषु विदीयन्ते ) रागि रागी लालिमा सोऽस्यामस्तीति रक्तवर्णमित्यर्थः ( दाडिम-बीजानि रक्तानि भवन्ति) यत् हृद् आभ्यन्तर-भागः ( कर्मधा० ) तस्मिन् विशन्ति प्रवेशं कुर्वन्ति ( स० तत्पु० ) यानि शुकास्यानि ( कर्मधा० ) शुकानाम् = कीराणाम् आस्यानि (10 तत्पु० ) स्मरस्य कामस्य किंशकाशुगाः= पलाश-रूपा बाणा ( 10 तत्पु०) इव ( उपमित तत्पु०) यस्यां तथाभूनाम् (ब० बी० ) अर्थात् दाडिमानां स्फुटित भागेषु प्रविष्टानि शुकाना मुखानि कामदेवस्य पलाशपुष्परूपबाणसदृशानि आसन् , शुका हि दाडिमफठवीजानि भक्षयन्तीति स्वाभाविकम् , ( अथ नायिका-पक्षे) फल्ने दाडिमे इत्र यो स्तनौ= कुचौ ( उपमानतत्पु० ) तयोः स्थाने विदोर्ण = प्रियतम-विरहकारणात् स्फुटितं रागि= अनुरागपूर्ण हृद् = हृदयम् तस्मिन् विशन्तः शुकास्यानीव स्मरस्यकिंशुकख्याशुगाः ( उपमान तत्पु० ) यस्याम् ताम् , पलाश-पुष्पं हि शुकास्यवत् रक्तवर्णम् अग्रभागे च कुञ्चितं मवतीति कारणात् सादृश्यम् / विरहित-नायिका-हृदये काम-बाणा प्रविशन्ति स्मेति भावः // 42 // __व्याकरण-दित उत् +vs+तः कर्तरि / विदोर्ण वि+/+क्त त को न, न को प / विशत्/ विश्+शत / स्तनः स्तनतीति / स्तन् + अच् कर्तरि / प्रास्यम् अस्यते क्षिप्यतेऽन्नादिकमति/अस्+मण कर्मणि / ऐचत/क्ष+लङ् / हिन्दी-उस ( नल ) ने दाडिमो देखी, जिसपर पक्षी बैठे थे, दोहद पास करने से कोटे बादि का स्पष्ट विकास हुआ पड़ा था एवं जिसके स्तन जैसे फलों के स्थान में फटे पड़े लाल लाल भीतरी माग में कामदेव के पलाशपुष्प-रूर बाणां जैसे तोतों के मुख प्रवेश कर रहे थे // 8 // व्यज्यमान अप्रस्तुत अर्थः उस ( नल ) ने विरहिणी नायिका देखो, जिसे प्रियतम की स्मृति से रोमाञ्च हो उठा था और जिसके ( दाडिम के ) फल-जैसे स्तनों के ( मध्यवर्ती ) स्थान में (वियोग के कारण ) विदीर्ण हुए पड़े अनुराग-भरे हृदय में तोतों के मुख के समान कामदेव के पलाश-पुष्प-रूप बाण प्रवेश कर रहे थे // 3 //