________________ 788 नैषधमहाकाव्यम् / 'यह अनल अर्थात् अग्नि ( पक्षा०-नलभिन्न ) है ऐसा कहा। [ दमयन्तीने सरस्वती कृत वर्णन को सुनकर अग्नि तथा नल-दोनों में समानार्थक वर्णन होनेसे उस पुरःस्थित पुरुषको पहले नल समझा और बाद में नलभिन्न ( या-अग्नि ) समझा अर्थात् कुछ निर्णय नहीं कर सकी कि यह नल है या अग्नि ? ] // 13 // एपशीमथ विलोक्य सरस्वती तां सन्देहचित्रमयचित्रितचित्तवृत्तिम् / देवस्र सूनम चन्द्राविकासिरश्मे रुद्दिश्य दिक्पतिमुदीरयितुं प्रचक्रे / / 14 / / ___ एतादृशामिति / अथ सरस्वती तां भैमीम् , एताहशीम् ईदृशी, सन्देहः प्रागुक्तः, चित्रं देव्यास्तादृशश्लिष्टवाक्यश्रवणात् उभयोः समानरूपदर्शनाच आश्चर्य, भयं नलनिश्चयाभावेन नलप्राप्ती नैराश्यात् बालः, एतैर्भाचैश्चित्रिता विस्मिता, विस्मय. विमूढ़ा इत्यर्थः, चित्तवृत्तिर्यस्यास्तादृशी, विलोक्य अरविन्दानि विकासयन्ति ये तादृशा रश्मयो यस्य तस्य पद्मिनीमुद्राभञ्जनस्थ, देवस्य सूर्यस्य, सूनुं पुत्रं, दिक्पति यमम् , उद्दिश्य उदीरयितुं व्याहत्त, प्रचक्रे प्रस्तावं चक्रे, प्रचक्रमे इत्यर्थः // 14 // सन्देह ( यह पुरःस्थित पुरुष नल है या अग्नि ? इस प्रकारकी शङ्का ), आश्चर्य ( दोनों के समान रूप होनेसे आश्चर्य ) तथा भय (नल-प्राप्तिकी आशा नहीं होनेसे भय ) से चित्रित चित्तवृत्तिवाली उसे ( दमयन्तीको ) देखकर सरस्वती देवीने कमलोंको विकसित करनेवाले किरणवाले देव अर्थात् सूर्यके पुत्र दिक्पाल ( दक्षिण दिशाके पति ) यमको लक्ष्य कर कहना आरम्भ किया / / 14 / / दण्डं बिभर्त्ययमहो! जगतस्ततः स्यात् कम्पाकुलस्य सकलस्य न पङ्कपातः स्ववैद्ययोरपि मदव्ययदायिनीभिरेतस्य रुग्भिरमरः खलु कश्चिदस्ति ? / / ___ दण्डमिति / अयं यमः, दण्डं दुष्टदमनं स्वकीयास्त्रं, आलम्बनयष्टिञ्च, विन्ति, ततो दण्डधारणात् , कम्पाकुलस्य सकलस्य जगतः पंके पापे, कर्दमे च, पातो न स्यात् अहो ! अन्यस्य दण्डधारणादन्यस्य अपतनमित्याश्चर्यम् / अन्यत्र-नलस्य यथापराधदण्डनाजगतो निष्पापत्वमित्यर्थः, 'गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम् / इह प्रच्छन्नपापानां शास्ता वैवस्वतो यमः' इति स्मरणात् ; तथा, 'राजभितदण्डास्तु कृत्या पापानि मानवाः / निर्मलाः स्वर्गमायान्ति सन्तः सुकृ. तिनो यथा // ' इत्युभयोर्दण्डधारणस्मरणादिति भावः / किञ्च, वर्धेद्ययोः अश्विनीकुमारयोरपि, मदव्ययदायिनीभिः अहङ्कारहाग्णिाभिः, कर्मजरोगाणां चिकित्सासाध्यत्वाभावात् तयोरप्यसाध्याभिरित्यर्थः, अन्यत्र-सौन्दर्यण प्रसिद्धयोस्तयोः सौन्दर्यगवहारिणीभिः, एतस्य यमस्य नलस्य च, रुग्भिः कर्मविपाकानुसारेण एत. सम्पादितरोगैः, 'स्त्री रुग्रजा चोपतापरोगव्याधिगदामया' इत्यमरः / रुजेर्धातोः क्विप , अन्यत्र-शरीरशोभाभिः, दैहिकसौन्दर्येणेत्यर्थः, 'रुक स्त्री शोभायुतीच्छासु' 1. 'चित्तभित्तिम्' इति पाठान्तरम् /