________________ नैषधमहाकाव्यम् / एतदिति / एतस्य राज्ञः, यश एव तीरधिः क्षीराब्धिः, तस्य पूरं प्रवाह, गाहते इति तद्द्वाहि तद्वर्णनप्रवृत्तमित्यर्थः, कवीनां वचनम् अगाधे असीमे, अतलस्पर्श स्थाने इत्यर्थः, पतति निमजति, न स्वस्य यशः निःशेषं वर्णयितुं शक्नोतीत्यर्थः / किञ्च एतद्गुणानाम् अस्य नृपतेः शौर्यादिगुणानां, गणनाकपातः सङ्घयांनरेखाविन्यासः, प्रत्यर्थिकीर्तीः शत्रुयशांसि एव, खटिकाः लेखनार्थकठिनीः क्षिणोति कर्शयति, एतद्गुणवृद्धःप्रत्यर्थिकीर्तितिरोधायकत्वादिस्थं निर्देशः। अत्र रूपकानुप्राणितातिशयो। क्यलङ्कारः // 9 // इस ( 'ऋतुपर्ण' राजा ) के यशोरूपी कीर्तिसमुद्र के प्रवाहका अवगाहन ( यशस्समूहका वर्णन ) करनेवाला कवियोंका वचन अथाहमें गिर पड़ता है। अर्थात इसके श्रवणाशक्य यशःसमूहका वर्णन कोई कवि नहीं कर सकता तथा इसके गुणों (शूरता, दयादि गुणों ) की गणनाका अङ्क लिखना शत्रुओं की कीर्ति रूपिणी खड़िया ( चॉक) को क्षीण करता है अर्थात् अगणनीय इसके गुण घिसते-घिसते नष्ट हुई खडियाके समान शत्रु-कीर्तियोंको नष्ट करते हैं / [ अन्य भी कोई व्यक्ति समुद्रप्रवाह में गिरकर अथाहमें पड़ जाता है तथा अङ्क आदि लिखते लिखते खड़िया घिसकर नष्ट हो जाती है / यह 'ऋतुपर्ण' राजा महायशस्वी, महागुणी तथा महाशूरवीर है; अतः इसका वरण करो ] // 9 // भास्वद्वंशकरीरतां दधदयं वीरः कथं कथ्यताम् ? अध्युष्टापि हि कोटिरस्य समरे रोमाणि सत्त्वाङ्कराः / नोतः संयति वन्दिभिः श्रुतिपथं यन्नामवर्णावली मन्त्रः स्तम्भयति प्रतिक्षितिभृतां दोःस्तम्भकुम्भीनसान् / / 10 / / भास्वदिति / भास्वद्वंशकरीरता सूर्यकुलाङ्कुरत्वम् उज्ज्वलवेण्वङ्कुरत्वञ्च, दधत् अतितेजस्वी 'द्वौ वंशौ कुलमस्करौ' 'वंशाङ्करे करीरोऽस्त्री' इति चामरः, वीरः शूरः, अयमृतुपर्णः, कथं कथ्यताम् ? वर्ण्यताम् ? कथयितुमशक्य इत्यर्थः; तथा हि समरे युद्धकाले युद्धक्षेत्रे वा, अस्य राज्ञः अध्युष्टा सा त्रिसङ्घयाविशिष्टा कोटिः, सार्द्धवः यकोटिरित्यर्थः, अध्युष्टेति सार्द्धत्रयस्य संज्ञा, 'तिम्रः कोट्योऽर्द्धकोटी च यानि रोमाणि मानवे' इत्यादि स्मरणात / 'विंशत्याद्याः सर्दकत्वे सर्वाः सङ्खयेयसङ्घथयो।' इति सङ्घययेऽप्येकवचनम्,रोमाणि शरीरस्थानि तनुरूहाणि, सत्वं व्यवसायः, उत्सा. हिवीरस्य स्थायिभावः, तस्य अङ्कुरा इवाङ्कुरा बहिरुद्गताः वीररसाङ्कुरा इत्युप्रेक्षा 'द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु' इत्यमरः, वंशकरीरस्य समन्तात् लोमवदकुरप्रादुर्भावो युक्त इत्यर्थः अत एव संयति युद्ध, वन्दिभिवैतालिकैः, श्रुतिपथं कर्णपथं, नीतः श्रावित इत्यर्थः, यस्य ऋतुपर्णस्य, नामवर्णावली ऋतुपर्णेति नामाक्षरप. तिरेव, मन्त्रः प्रतिक्षितिभृतां शत्रुभूपानां दोःस्तम्भा एव. कुम्भीनसाः क्रूरसर्पाः, क्रौर्याद देाच इति भावः, तान् , 'कुम्भीनसः करस' इति मेदिनी, स्तम्भयति