________________ द्वाविंशः सर्गः। 1571 स्वर्भानुना प्रसभपानविभीषिकाभिर्दुःखाकृतैनमवधूय सुधा सुधांशुम् / स्वं निहते सितिमचिह्नममुष्य रागैस्ताम्बूलताम्रमवलम्ब्य तवाधरोष्ठम् / / स्वर्भानुनेति / हे प्रिये ! सुधा एनं सुधांशुमवधूय त्यक्त्वा तवाधरोष्ठमवल. म्ब्यामुष्य रक्तस्यौष्ठस्य रागै रक्तवणः कृत्वा सितस्य भावः सितिमा धावल्यमेव चिहूं यस्य तादृशं धवलरूपमपि स्वमात्मानं निहते पुनः पुनः स्वर्भानुपानमिया तिरो. दधाति / यतः-स्वर्भानुना वारंवारं प्रसभपानेन विभीषिकाभियोस्पादनैः कृत्वा दुःखाकृता प्रातिलोम्याचरणेनोत्पादितदुःखा। किंभूतमधरोष्ठम् ? प्रसिद्धस्य ताम्बूल. स्येव ताम्रो वर्णो यस्य, ताम्बूलेनैव वा ताम्र रक्तवर्णम् / पुना राहुपानमिया त्वदा धरमेव स्थानान्तरमाश्रित्य रूपान्तरेणास्मानं गोपायतीत्यर्थः। अन्योऽपि सभयं स्थानं हित्वा स्थानान्तरमाश्रित्य तत्रापि रूपान्तरं त्वा स्वं निहते / सुधया चन्द्रस्य परित्यागास्वन्मुखाश्रयणास्वन्मुखं चन्द्रादधिकमिति भावः। ताम्बूलताम्रमित्युक्तरो. स्योपमोत्प्रेक्षा वा / दुःखाकृता, 'दुःखात्प्रातिलोम्ये' इति डाच // 136 // ( हे प्रियतमे ) ! राहुद्वारा बलात्कारपूर्वक अपने ( सुधाके ) पान करने की बिमीषि. काओंसे दुःखित की गयी सुधा ( अपने चिरकालके आश्रय स्थान ) इस चन्द्रमाको छोड़कर पान (के चबाने )से लाल तुम्हारे अधरोष्ठका आश्रयकर (पुनः राहु द्वारा पान किये जाने के भयसे ) इस अधरोष्ठकी लालिमासे अपने श्वेत चिह्नको छिप रही है। [लोकमें भी कोई व्यक्ति किसी प्रबल शत्रुसे वार-वार पीड़ित होकर अपने चिरकालीन निवासस्थानको छोड़कर किसी दूसरे सुरक्षित स्थानमें चला जाता है और वहां भी उस शत्रुके पुनराक्रमणके मयसे दूसरा रूप धारणकर अपने को छिपाये रहता है। सुधापूर्ण होनेसे तुम्हारा मुख चन्द्रमाकी अपेक्षा श्रेष्ठ है ] // 136 // हर्यक्षाभवतः कुरङ्गमुदरे प्रक्षिप्य यद्वा शशं जातस्फीततनोरमुष्य हरिता सूतस्य पत्न्या हरेः / भङ्गस्त्वद्वदनाम्बुजादजनि यत्पद्मात्तदेकाकिनः / स्यादेकः पुनरस्य स प्रतिभटो यः सिंहिकायाः सुतः / / 137 // हर्यतीति / हे प्रिये ! मतभेदेन कलङ्करूपं कुरङ्गं, यद्वा-शशमदरे मध्ये प्रक्षिप्य जाता स्फीता पूर्णा तनुर्यस्य, हरेरिन्द्रस्य पन्या हरिता प्राच्या दिशा सूतस्य तत्रोदितस्य पूर्णस्य, अत एव हरेः श्रीविष्णोर्वामाक्षीभवतः, यद्वा-सञ्जातपूर्णशरो. रस्य मृगं यद्वा-शशं, कलङ्क मध्ये निक्षिप्य मध्यस्थितकलङ्कस्य कनोमिकातुल्य. स्वाच्छ्रीविष्णोर्वामनेत्रीभवतोऽमुष्य चन्द्रस्य त्वद्वदनाम्बुजारसकाशाद्यद्भङ्गः पराजयोऽ. जनि तदेकाकिनः सर्वदाऽसहायादेकस्मात्पनात् , न स्वन्यस्मारकमलात् , न ह्यन्यः पञरयं पराजीयते, यस्पुनरयमेव पनान्पराभवतीत्यर्थः। अथवा-अम्बुजतुल्यत्वाद्वदनादेव पद्माद्, अथ च-पनसंख्याकावद्वदनरूपादम्बुजाघदस्य भङ्गो जाता,