________________ द्वाविशः सर्गः। 1535 चतुर्दिगन्ती परिपूरयन्ती ज्योत्स्नैव कृत्स्ना सुरसिन्धुबन्धुः। क्षीरोदपूरोदरवासहानवैरस्यमेतस्य निरस्यतीयम् / / 6 / / चतुरिति / चतुर्णा दिगन्तानां समाहारस्ताम् / चतुर्दिक्प्रान्तानित्यर्थः / (तां) परिपूरयन्ती सामस्त्येन व्याप्नुवती, तथा-श्वैत्यारसुरसिन्धोर्मन्दाकिन्या बन्धुः सदृशी / तथा कृत्स्ना पूर्णा इयं ज्योत्स्नैवैका क्षीरोदपूरोदरे वासः स्थितिस्तस्य हाना. द्वहकालपरित्यागाद्धेतोरेतस्य चन्द्रस्य वेरस्यं क्षीरसागरविरहजनितं दुःखं निरस्थति नाशयति / असौ चन्द्रिकायामेव क्षीरसागरबुद्धया पितृवियोगदुःखं परित्यजतीत्यर्थः। सकलदिगन्तव्यापिधवलचन्द्रिकामध्यवर्ती चन्द्रः क्षीरसागरमध्यस्थ इव शोभत इति भावः / गङ्गावद्दुग्धवच्चेयं कौमुदीति / चतुर्दिगन्तीम्, समाहारे द्विगोर्डीप॥ चारो दिशाओंको परिपूर्ण करती ( उनमें व्याप्त होती ) हुई तथा ( श्वेत होनेसे ) गङ्गाके समान चांदनी ही इस चन्द्रका क्षीरसमुद्रके प्रवाहके मध्यमें निवास करनेके अमावजन्य विरसता ( क्षीरसमुद्र के विरह दुःख ) को नष्ट करती है। [चन्द्रमा पहले सर्वदा क्षीरसमुद्रमें निवास करता था, परन्तु वहाँसे निकलकर सर्वदा आकाशमें रहनेके कारण पिता (क्षीर. सागर ) के विरहजन्य दुःखसे दुखी हुआ तो उसे गङ्गाके समान शुभ्र चांदनी ही सादृश्य होनेसे दूर करती है / सब दिशाओं में व्याप्त स्वच्छ चांदनीके मध्यमें क्षीरसमुद्रके मध्यमें स्थितके समान यह चन्द्रमा शोभता है ] // 68 // पुत्री विधोस्ताण्डविकाऽस्तु सिन्धोरश्या चकोरस्य दृशोर्वयस्या / तथाऽपि सेयं कुमुदस्य काऽपि ब्रवीति नामैव हि कौमुदीति / / 69 / / पुत्रीति / इयं चन्द्रिका यद्यपि चन्द्रात्प्रसूतत्वाद्विधोः पुत्री अस्तु / सिन्धोः समुद्रस्य ताण्डविका नृत्तोपदेशिका नाटयित्री अस्तु / चन्द्रिकया हि सिन्धुरुल्लास्यते सा च तस्य नप्त्री भवति / यद्वा-इयं विधोः पुत्री सिन्धोस्ताण्डविका भवतु / वयस्या सखी भवतु / तथापि सेयं चन्द्रिका कुमुदस्य कापिअनिर्वचनीया संबन्धिनी भवतु / पूर्वनिर्दिष्टसर्वापेक्षया कुमुदस्यैव निरतिशयानन्दकारित्वास्केनाप्यनिर्वच. नीयेन संबन्धिनी भवस्वित्यर्थः / हि यस्मात्कौमुदीति नामैव कर्तृ ब्रवीति / सर्वेषां तत्तत्संबन्धसंभवेऽपि कुमुदानामियं कौमुदीति, 'तस्येदम्' इति संबन्धेऽण् / कुमुदा. नामेव प्रीत्यतिशयेन संबन्धं वदतीत्यर्थः / कौमुदीति नामंव हि स्पष्टं ब्रवीतीति वा / चन्द्रिकया सर्वेषामप्यानन्दः कृतः, कुमुदानां तु विशेषत इति भावः। कार्यण कारणानुमानम् / ताण्डविका, अर्शआद्यजन्तान्मतुबन्ताद्वा 'ताण्डव'शब्दात् 'तत्करोति-' इति ण्यन्ताण्ण्वुल् / अशनमशिः, 'इक्कृष्यादिभ्यः' इतीकि अशिमहंतीति दण्डादित्वाद्यत् / 'आश्या' इति च पाठः // 69 // यद्यपि चाँदनी ( चन्द्रमासे उत्पन्न होनेसे) चन्द्रमाको पुत्री हो, (चन्दोदय होनेपर