________________ 1502 नैषधमहाकाव्यम्। च्येत / परशुरामेणापि निजवसत्यर्थं समुद्रो बाणेन परास्तः सन्नुत्पतितः / समुद्रज. लस्यौवायं कालिमा, न तु गमनस्य / उत्पतितस्य समुद्रस्याधोदेशे स्थितानि रत्नग्रा. हादीनि अधःस्थितेन जनेन सुखेन द्रष्टुं शक्यन्ते / मकरकर्कटादयः साक्षान्मीनादय एव, नतु राश्यादिभूताः; शिष्टाश्च ताराः सामुद्रिकमौक्तिकान्येव, नतु, तारा इत्यादि ज्ञातव्यम् / 'शरासनभ्रः' इति उवस्थानत्वान्नदीत्वाभावाद्धस्वत्वाभावः / हस्वपाठस्तु ‘स हैकवंशप्रभवभ्रु' इतिवत्समर्थनीयः। यद्वा, शिष्टकविप्रयोगदर्शनाज्ज्ञातव्यः।। __हे कामबाणतुल्य भ्रूवाली ( दमयन्ति ) ! राम ( रामचन्द्र, या-परशुराम ) के बाणोंसे मर्मभेदन होनेकी पीडाके वेगसे पहले यह समुद्र ऊपर उछल गया, ( अत एव ) ग्राह. समहसे मिश्रित मछलियों तथा शङ्खोंवाला यह आकाश नहीं है, ( किन्तु समुद्र ही है)। [ ऊपरमें ये तारा-समूह नहीं दीख रहे हैं किन्तु समुद्रस्थ मकर, मत्स्य एवं शङ्ख दीख रहे हैं, अत एव यह आकाश नहीं है, किन्तु रामबाणके मर्मभेदनजन्य पीडासे ऊपरकी ओर उछला हुआ यह समुद्र है। यद्यपि नल पहले सत्ययुगमें हुए थे, तथा रामचन्द्र और परशुराम उनके बाद त्रेता युगमें हुए थे; अतएव उनके बाणसे मर्माहत समुद्रके ऊपर जानेका वर्णन नलको करना असङ्गत है; तथापि कवि श्रीहर्षके कल्पान्तरके भेदसे इसे सुसङ्गत मानना चाहिये ] // 17 // पौराणिक कथा-सीताहरण होनेपर रावणसे लड़ने के लिए लङ्काको जाते हुए रामचन्द्र ने मार्ग पाने के लिए समुद्रपर बाण उठाया था। तथा परशुरामने भी अपने रहने के लिए बाणसे मारकर समुद्र को दूर हटा दिया था / मोहाय देवाप्सरसां विमुक्तास्ताराः शराः पुष्पशरेण शङ्के। पञ्चास्यवत्पञ्चशरस्य नाम्नि प्रपञ्चवाची खलु पञ्चशब्दः / / 18 / / मोहायेति / हे भैमि ! पुष्पशरेण कामेन देवानामप्सरसां च मोहायान्योन्यमनुरागसंजननाथं देवादीनामुपरिवर्तमानत्वाद्विमुक्ता ऊध्र्व क्षिप्ताः शुभ्रपुष्परूपाःशरा एव तारा इत्यहं शङ्के ननु कामस्य पुष्पशरत्वेऽपि पञ्चबाणत्वात्ताराणां बहुतरखास्कथं कामबाणस्वमित्याशय समर्थयते-खलु यस्मात् पञ्चशरस्य नाम्नि पूर्वपदत्वेन वर्तमानः 'पञ्च'शब्दः प्रपञ्चवाची, प्रकृष्टः पञ्चो विस्तारस्तद्वाचकः, नतु संख्यावाचकः। 'पचि विस्तारवचने' इति स्वार्थणिजन्ताद्धातोः। पचायचि पञ्चयन्ति विस्तृता भवन्ति पञ्चाः शरा यस्येति विग्रहः, नतु पञ्चसंख्याकाः शरा यस्येति / तस्मात्पुष्पबाणत्वं ताराणां युक्तमेवेत्यर्थः / कस्येव ? पञ्चास्यवत् 'सिंहो मृगेन्द्रः पञ्चास्यः' इति सिंहाभिधायिनि 'पञ्चास्य' शब्दे सिंहस्य पञ्चसंख्यमुखस्वाभावात् पञ्चयति विस्तृतं भवति पञ्छ 1. तदुक्तं कविकुलभूषणेन कालिदासेन रघुवंशे'रामात्रोत्सारितोऽप्यासोरसालग्न इवाणवः / इति (रघु०४५३)।