________________ द्वाविंशः सर्गः। इदानीं पूर्वसर्गान्तरप्रस्तावितं सायंकालं वर्णयिष्यन् कविविंशं सर्गमुपक्रमते उपास्य सांध्यं विधिमन्तिमाशारागेण कान्ताधरचुम्बिचेताः। अवाप्तवान् सप्तमभूमिभागे भैमीधरं सौधमसौ धरेन्द्रः॥१॥ उपास्येति / असौ धरेन्द्रो नलः सायंसंध्याप्रान्तभवेनान्तिमाशायाः प्रतीच्या आशाया दिशो रागेण रक्तवर्णन हेतुना कान्ताया अधरचुम्बि अधरोष्ठस्मारि चेतो यस्य तादृशः संध्यारागसहशभैम्यधरस्मारी सन् वद्विरहासहिष्णुतया बहिरवस्थातु. मशक्तो यत्र सा विद्यते तं सप्तमे भूमिभागे कक्षायां स्थितं भैम्याः धरं पर्वतरूपं सौधं हम्यं प्रासादस्य सप्तमीमुपकारिकामवाप्तवान् / किं कृत्वा ? सांध्यं संध्यासंबन्धिनं संध्याजपादिविधिमुपास्य कृत्वा // 1 // इस राजा ( नल ) ने सन्ध्याकालिक विधिको पूर्णकर पश्चिम दिशाकी लालिमासे प्रिया (दमयन्ती ) के अधरका स्मरण करते हुए, दमयन्तीके प्रासादके सातवें तल (सतमहला) को प्राप्त किया // 1 // प्रत्युव्रजन्त्या प्रियया विमुक्तं पर्यङ्कमङ्कस्थितसजशय्यम् / अध्यास्य तामप्यधिवास्य सोऽयं संध्यामुपश्लोकयति स्म सायम् // 2 // प्रतीति / सोऽयं नलः सायंकालसंबन्धिनी 'सन्ध्यो रात्रिदिनसम्बन्धिनं मुहूर्त भैम्याः पुर उपश्लोकयति स्म श्लोकः स्तौति स्म / किं कृत्वा ? प्रत्युद्वजन्त्या सम्मुखमागच्छन्त्या प्रियया विमुक्तम् / अङ्के मध्ये स्थिता सजा आस्तृता शय्या तूलिका यत्र तं पर्यकमध्यास्य स्वयमधिष्ठाय तां भैमीमप्यधिवास्य तत्रोपवेश्य / पर्यम्, 'अधिशी-' इति कर्मत्वम् / अधिवास्य, ण्यन्ताद्वसतेय॑प्। तस्य धास्व. न्तरत्वात् 'उपान्वध्यावसः' इति कर्मवाप्राप्तेस्तामधिवास्येत्यत्र सामर्थ्यात्तत्रैवेति ज्ञेयम् / उपश्लोकयति, 'सत्यापपाश-' इति णिच् / स्मयोगे भूते लट् // 2 // __ ये ( नळ ) अगवानी करती हुई प्रिया ( दमयन्ती ) से छोड़े गये तथा गद्दा बिछाये हुए पलंगपर स्वयं बैठकर और उस ( दमयन्ती) को भी बैठाकर सायंकालकी सन्ध्याका वर्णन श्लोंकों द्वारा करने लगे // 2 // विलोकनेनानुगृहाण तावदिशं जलानामधिपस्य दारान् / अकालि लाक्षापयसेव येयमपूरि पङ्करिव कुङ्कमस्य // 3 // विलोकनेनेति / हे प्रिये ! त्वं जलानामधिपस्य वरुणस्य दारान् मायाँ पश्चिमां दिशं विलोकनेनानुगृहाण कृतार्थीकुरु, तावदादौ विलोकनेनानुगृहाण, वर्णनया तु पश्चादित्यर्थः / यावचन्द्रोदयादिना प्राच्या रामणीयकं भवति तावत्संध्यारागेण कृत. रामणीयको पश्चिमां दिशं विलोकयेति वा 'तावत'शब्दार्थः / जडाधिपस्य च भार्या