________________ 1484 नैषधमहाकाव्यम् / स्थित्वा इति शेषः। असौ त्वद्वाणी, रसिके अतिमधुरे, रसालाङ्कुरास्वादेन इति भावः / अथ च ममापि ईदृशी वाणी भवतु एवं साभिलाषे, कण्ठे गलदेशे, कण्ठध्वनी इत्यर्थः / कर्तुं विधातुम, कण्ठस्थां कतमित्यर्थः / आमेडितेन द्वित्रिवारमुक्तेन, पुनः पुनर्घोषणेन इत्यर्थः / 'आम्रडितं द्विस्त्रिरकम्' इत्यमरः। कति कियत् वारान् , न अभ्यस्यते ? न शिक्ष्यते ? अपि तु बहुवारम् अभ्यस्यते एव, तथाऽपि अद्यापि तासां भवद्वाणी सम्यक न आयाति इति ज्ञायते इति भावः। कोकिलालापात् अपि स्वद्वाणी मधुरतमा इति निष्कर्षः। गुरुगृहे ब्रह्मचर्यावलम्बनपूर्वकं विद्याभ्यासस्य शास्त्रीयत्वात् परभृतपदम्, तथा पुमपेक्षया स्त्रीणां विशेषतः तरुणीनां कण्ठस्वरं मधुरम् इति सूचनार्थ युवतीपदं प्रयुक्तमिति बोध्यम् // 142 // हे तरुणि ( दमयन्ति ) ! पिकयुवतियोंको भी अमृत-समुद्रकी प्रवाहरूपा तुम्हारी वाणीको अच्छी तरह गाने नहीं आता है, अत एव वे तुम्हारे क्रीड़ावनके आम्रवृक्षपर (बैठकर ) रसिक ( हमारी वाणी भी दमयन्तीके समान हो जाय इस प्रकार के अभिलाषयुक्त, पक्षा०-आम्रमारी तथा आम्रकिसलयके भास्वादनसे कषायरसयुक्त ) कण्ठमें करने के लिए बार-बार कहनेसे कितनी बार अभ्यास नहीं करती हैं, अर्थात् बहुत बार अभ्यास करती हैं / [ आजतक भी तुम्हारी वाणीको यथावत् पिकयुवतियां अभ्यासकर नहीं गा सकी, अत एव तुम्हारी वाणी अत्यन्त मधुर है। पुरुषकी अपेक्षा स्त्रियोंका, उनमें भी युवतियोंका और उनमें भी पिकयुवतियों के स्वरको अत्यन्त मधुर स्वर होनेसे यहां 'पिकयुवतियों को दमयन्ती-वाणीका अभ्यास करना कहा गया है। अन्य भी कोई व्यक्ति वन में गुरु के आश्रयमें रहते हुए भिक्षाशनपूर्वक विद्याभ्यास करता है ] // 142 // ऊर्ध्वस्ते रदनच्छदः स्मरधनुर्बन्धूकमालामयं मौर्वी तत्र तवाधराधरतटाधःसीमलेखालता। एषा वागपि तावकी ननु धनुर्वेदः प्रिये ! मान्मथः सोऽयं कोणधनुष्मतीभिरुचितं वीणाभिरारभ्यते // 143 // ऊर्ध्व इति / हे प्रिये ! ते तव, उर्ध्वः उपरिस्थितः, रदनच्छदः ओष्ठः उत्तरोष्ठ एवेत्यर्थः / बन्धूकमलामयं बन्धुजीवपुष्पमालात्मकम्, स्मरधनुः कामकार्मुकम् , ईषद्वक्राकारस्वादिति भावः। तथा तत्र कामचापे, तव भवत्याः, अधराधरतटस्य निम्नोष्ठदेशस्य, अधःसीमायां निम्नस्थमर्यादायाम् , प्रान्तदेशे इत्यर्थः। या लेखा. लता वीरुदाकाररेखाविशेष इत्यर्थः / दैादिति भावः। सा एव मौर्वी ज्या; एषा श्रयमाणा, तावकी तव सम्बन्धिनी, वाक वाणी अपि, ननु निश्चये। मान्मथः कामसम्बन्धी, कामाद्वैतप्रतिपादक इत्यर्थः, धनुर्वेदः, सः विशिष्टः, अयं वद्वाणी. रूपः मान्मथधनुर्वेदः, कोणधनुष्मतीभिः वीणावादनसाधनधनुर्युक्ताभिः। 'कोणो . 1. 'रभ्यस्यते' इति पाठान्तरम् /