________________ एकविंशः सर्गः। 1483 एतत्तीरमृदैव किं विरचिताः पूताः सिताश्चक्रिकाः ? किं पीयूषमिदम्पयांसि ? किमिदन्तीरे तवैवाधरौ ? // 141 // वाणीति / हे प्रिये ! ते तव, वाणी वाक् , का अपि वर्णयितुम् अशक्यत्वात् लो. कोत्तरा इत्यर्थः। अथ च अनिर्दिष्टनामा, उज्ज्वलरसस्रोतस्वती शृङ्गाररससम्बन्धिनी नदी, अथ च निर्मलजला नदी, अत एव मन्मथस्य कामस्य, तीर्थ योनिः, कारण. मित्यर्थः / कामोद्दीपिका इति यावत् , अथ च, तीर्थ जलावतारः, नद्यामवतरणार्थ सोपानश्रेणीत्यर्थः / 'तीर्थ योनौ जलावतारे च' इति हैमः / तथा खण्डः खण्ड इक्षु. विकारविशेषः, इदमीयस्य अस्याः नद्याः सम्बन्धिनः, पुलिनस्य तोयोस्थिततटभा. गस्य / 'तोयोस्थितं तत् पुलिनम्' इत्यमरः। बालुका सिकता, इति आलप्यते गीयते, तथा पूताः निर्मला:, सिताः शुभ्राः, चक्रिकाः शर्कराकृतचक्राणि, एतस्याः नद्याः, तीरस्य तटस्य, मृदा एव धवलमृत्तिकया एव, विरचिताः कल्पिता किमी तथा पीयूषम् अमृतम् , अस्याः सम्बन्धीनि पयांसि इदम्पयासि अस्या नद्याः जलानि, किम् ? अस्याः जलानि एव अमृतत्वेन आलप्यन्ते किम्? तथा तव भवत्याः, अधरौ ओष्ठौ एष, इदन्तीरे अस्याः नद्याः उभौ तटौ, किम् ? / शृङ्गाररसप्रधाना कामोद्दीपिका भवद्वाणी मधुरतमा इति भावः // 14 // (हे प्रिये!) तुम्हारी वाणी कोई अनिर्वचनीय गुणवाली लोकोत्तर (अथच-अकथित नामवाली ) उज्ज्वलरस (शृङ्गार, अथच-निर्मल जल) की नदी है, ( अत एव ) कामदेवका सीर्थ ( उत्पत्तिस्थान, पक्षा०-नदीमें प्रवेश करनेके लिए सीढ़ी ) है, उक्तस्वरूपा इस नदीके तटका बालू ( रेत) ही 'शकर, शकर' ऐसा कहा जाता है, इस ( उक्तस्वरूपा) नदीके किनारेकी मिट्टी ही मिश्रीकी (थाली में जमाई गयी) राशि है क्या? और इस ( उक्तस्वरूपा ) नदीके जल ही अमृत है क्या ? तथा इस ( उक्तस्वरूपा) नदीके दोनों तीर ही तुम्हारे दोनों ओष्ठ हैं क्या ? / [ तुम्हारी वाणी शृङ्गाररसप्रधान कामोद्दीपक तथा अतिशय मधुर है ] // 141 // परभृतयुवतीनां सम्यगायाति गातुं न तव तरुणि ! वाणीयं सुधासिन्धुवेणी। कति न रसिककण्ठे कत मभ्यस्यतेऽसौ भवदुपविपिनाने ताभिरानेडितेन ? / / 142 // परेति / तरुणि ! हे प्रादुर्भूतयौवने ! सुधासिन्धोः अमृतसागरस्य वेणी प्रवाहरूपा, तव भवत्याः, इयम् उच्चार्यमाणा, वाणी वाक, परभृतयुवतीनां कोकिलव. धूनाम् , सम्यक् उत्तमं यथा तथा, गातुं भाषितुम्, न आयाति न आगच्छति, कोकिलाऽपि ईशसुमधुरस्वराभावात् तवाग्रे गातुं लज्जते इति भावः। अतः ताभिः कोकिलामिः, भवत्याः तव, उपविपिने, उपवने, यः आनः आम्रवृषः तस्मिन् , 63 नै० उ०