SearchBrowseAboutContactDonate
Page Preview
Page 785
Loading...
Download File
Download File
Page Text
________________ 1482 नैषधमहाकाव्यम् / आस्ये या तव भारती वसति तल्लीलारविन्दोल्लस द्वासे तत्कलवैणनिकणमिलद्वाणीविलासामृते / तत्केलिभ्रमणार्हगैरिकसुधानिर्माणाधरे तन्मुक्तामणिहार एव किमयं दन्तस्र जौ राजतः ? // 14 // आस्य इति / हे प्रिये ! तस्याः भारत्याः, लीलारविन्दस्य हस्ते स्थितस्य क्रीडाकमलस्य, उल्लसन् प्रसरन् , वासः गन्धः यस्मिन् तादृशे, पद्मिनीत्वात् पद्मतुल्यप. रिमले इति भावः / तथा तस्याः भारत्या एव, कलः मधुरास्फुटः, यः वैणः वीणा. सम्बन्धी, निक्कणः नादः, तद्पं मिलत् सम्बध्यमानम् , वाणीविलास एव वक्रोक्तयादिनानाविधवाग्वैचित्र्यमेवेत्यर्थः / अमृतं पीयूषं यस्मिन् तादृशे, तथा तस्याः भारस्या एव, केलिभ्रमणाहं लीलया गमनयोग्यम्, गैरिकेण रक्तवर्णधातुविशेषेण, रञ्जि. तया इति शेषः / सुधया धवलतासाधनचूर्णद्रव्येण, निर्माणं चित्रादिरचना यत्र तादृशम् , यत् हम्य गृहम् , तदेव अधरः रदनच्छदः यस्मिन् तादृशे, तव भवत्याः, आस्ये वदने, या भारती सरस्वती, वसति तिष्ठति, दन्तस्त्रजौ तव आस्ये पुरो दृश्य माने ये द्वे दन्तमाले, राजतः शौभते, तद्रूपः अयं पुरः दृश्यमानः, तस्याः भारत्याः, मुक्तामणिहारः मुक्कामणिखचितः हारः मुक्तामणिखचितः हारः एव, किम् ? तद्वत्ते रेजाते इत्यर्थः / सरस्वतीवीणाकणिततुल्या तव वाणी इति भावः / अत्र वाणीवर्णनं प्रस्तुतम् , अन्यत् प्रासङ्गिकम् / पद्मगन्धादिभिः मुखे भारतीवासः अनुमीयते // उस ( सरस्वती) के लीलाकमल-सम्बन्धी फैलते हुए सौरभसे युक्त, उस ( सरस्वती) मधुरास्फुट वीणा-सम्बन्धी स्वर से सम्बद्ध होते हुए वाणी-विलासरूप अमृतवाले ( अर्थात् सरस्वतीका ही मधुर स्वर तथा अस्फुट वीणास्वर वक्रोक्त्यादिरूपसे अनेकविध वाणीके विलासरूप अमृत हो रहा है ऐसा ), और उस ( सरस्वती) के क्रीड़ाभ्रमणके योग्य गेरुरूपी चूना ( अथवा-गेरुमिश्रित चूना ) से पोते ( लीपे ) गये महलरूप अधरवाले तुम्हारे मुखमें जो सरस्वती ( वाणी) रहती है; उसीके मोतियों के हारके समान ये दोनों दन्तश्रे. णियां शोभती हैं क्या ? / [ दमयन्तीको 'पद्मिनी'जातीया स्त्री होनेसे उसके मुखके गन्धको कमलगन्धतुल्य होना उचित ही है। सरस्वतीकी वीणाध्वनिके समान तुम्हारी वाणी मधुर है ] // 140 // वाणी मन्मथतीर्थमुज्ज्वलरसस्रोतस्वती काऽपि ते खण्डः खण्ड ईतीदमीयपुलिनस्यालप्यते बालुका / 1. 'इतः प्रभृति सप्त श्लोका 'जीवातौ' नोपलब्धाः' इति म०म० शिवदत्तश. र्माणः आहुः / 2. 'ख्या'-'इति मूलपुस्तकपाठः' इति म० म० शिवदत्तशर्माणः / 3. 'स्रोतस्विनी' इति पाठान्तरम् / 4. 'इतीदमुत्थपुलिनस्या' इति पाठान्तरम् /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy