________________ एकविंशः सर्गः। 1471 अन्योऽन्येति / हे दमयन्तीनलौ ? तत् तस्मात्, युवयोरत्यन्तसुरताभिलाषा / तोरित्यर्थः, अन्योऽन्यस्मिन् परम्परं प्रति, रागस्य अनुरागस्य,रमणाभिलाषस्येत्यर्थः, वशयोः अधीनयोः, युवयोः भवतोः, विलासस्य सुरतक्रीडायाः, स्वच्छन्दतां स्वाभि. प्रायानुवर्तिताम् , छिनत्ति व्याहन्ति यः सः तादृशः, सुरतव्यापारस्य रहः सम्पाद्यस्वादिति भावः / भालिवर्गः सखीसमूहः, दमयन्त्या इति शेषः / अपयातु निर्गच्छतु, गृहादिति शेषः / तथा हि-मदनः कामः, सिचयं वस्त्रम्, दम्पत्योरिति भावः / अत्या. जयन् अमोचयन् , दम्पतीभ्यामेव परस्परं वस्त्रोन्मोचनमकारयन् इत्यर्थः। वा अथवा, दन्तः दशनैः, नखैश्च फररुहैश्च, आणि युद्धम्, परस्पराघातरूपमित्यर्थः / अकारयन् अनाचरयन् , दम्पतीभ्यामेव परस्परमिति भावः। कथं केन प्रकारेण, मदनः मदयिता, सुरतव्यापारे मत्ततोत्पादक इत्यर्थः, स्यात् ? भवेत् ? अपि तु न कथश्चिदेवेत्यर्थः // 126 // ___ इस कारण परस्परमें अनुरागके वशीभून ( सम्भोगेच्छुक ) तुम दोनों के विलास ( सम्भोगकेलि ) का बाधक सखी-समूह (घरसे बाहर निकल ) जावे / (क्योंकि तुम दोनों के) वस्त्रोंको नहीं हटवाता हुआ तथा दाँतों एवं नखोंसे ( सम्भोगकालिक मल्ल-) युद्ध नहीं करवाता हुआ कामदेव मदोत्पादक ( हर्षकर्ता ) कैसे होगा ? / [ सखियों के रहने पर तुमलोगोंका वस्त्र त्याग तथा दन्त-नखक्षतादि करते हुए परस्पराघातादि करना नहीं हो सकेगा, अत एव दमयन्तीकी सखियोंका अब यहाँसे हट जाना उचित है ] // 126 // इति पठति शुके मृषा ययुस्ता बहुनृपकृत्यमवेत्य सान्धिवेलम् / कुपितनिजसखीहशाऽर्द्धदृष्टाः कमलतयेव तदा निकोचवत्यः / / 127 // इतीति / इति पूर्वोक्तप्रकारेण. शुके कीरपक्षिणि, पठति वाचयति सति, गन्धर्व। राजतनयानां वीणागानानुवादक्रमेण स्फुटम उच्चारयति सतीत्यर्थः / तदा तस्मिन् सन्ध्यासमये, कमलतयेव पद्मत्वेनेव हेतुना,निजनिजवदनानामिति भावः / निकोचः सङ्कोचः विद्यते यासां ताः निकोचवत्यः सङ्कोचशालिन्यः, एकत्र-सन्ध्याकालागम. नात् , अन्यत्र-सुरतप्रसङ्गोस्थानेन लज्जोदयादिति भावः, ताः आल्यः गन्धर्वराज. तनयाश्च, मृषा मिथ्या, कुपितायाः क्रद्धायाः सखीनिर्गमनेन क्रोधभावं प्रकाशमा. नाया इत्यर्थः / निजसख्याः दमयन्याः सम्बन्धिन्या, दृशा चक्षुषा, अर्द्धदृष्टाः किश्चिदीक्षमाणाः, क्रोधव्याजेन ईषदवलोकिताः सत्य इत्यर्थः / सान्धिवेलं सन्धिवेलायां सन्ध्यासमये भवम् / 'सन्धिवेलायतुनक्षत्रेभ्योऽण' / बहु अनेकम्, नृपस्य.नलस्य, कृत्यं कार्यम्, सन्ध्योपासनादिकम् अनुष्ठेयमित्यर्थः / अवेत्य ज्ञात्वा, ययुः प्रतस्थिरे, तस्मात् गृहादिति शेषः // 127 // इस प्रकार ( 21 / 116.126) तोतेके पढ़ते (गन्धर्वराजकन्याओंके वोणाशब्दको उच्चारण करते ) रहनेपर उस समय ( सन्ध्याकाल, पक्षा०-रतिकाल) में मानो कमल.