________________ 1458 नैषधमहाकाव्यम् / शिष्याः कलाविधिषु भीमभुवो वयस्या वीणामृदुकणनकर्मणि याः प्रवीणाः / आसीनमेनमुपवीणयितुं ययुस्ता गन्धर्वराजतनुजा मनुजाधिराजम् / / 10 / / शिष्या इति / वीणायाः वाचविशेषस्य, मृदुक्वणनकर्मणि कोमलवादन क्रियायाम प्रवीणाः निपुणाः, याः गन्धर्वराजतनुजाः गन्धर्वराजकन्याः, कलाविधिषु नृत्यगी. तादिकलाविद्याभ्यासेषु, भीमभुवः दमयन्त्याः, शिष्याः अन्तेवासिन्यः सत्यः, वयस्याः सख्यः, अभवन् इति शेषः / ताः गन्धर्वराजतनुजाः, आसीनम् उपविश. न्तम् , मनुजाधिराजं नराधिपम् , एनं नलम् , उपवीणयितुं वीणया उपगातुम् , ययुः प्राप्तवत्यः॥१०॥ जो दमयन्तीकी सखियां कलाकर्मों में दमयन्तीकी शिष्या थीं, तथा जो गन्धर्वराजकी कन्याएं वीणाके मधुर शब्द करने में निपुणा थीं, (अथवा-वीणाको मधुर बजानेमें निपुणा जो गन्धर्वराजकन्याएं (नृत्यगीतादि ) कलाकर्मों में दमयन्तीकी शिष्या होकर (दमयन्तीसे कलाओंको सीखकर ( उसकी सखी हो गयी थीं) वे (प्रासादपर दमयन्तीके साथ ) बैठे हुए इस ( नल ) की, वीणासे स्तुति करने के लिए ( वहांपर ) गयीं // 110 // तासामभासत कुरङ्गशां विपञ्चो किञ्चित् पुरःकलितनिष्कलकाकलीका / भैमीतथामधुरकण्ठलतोपकण्ठे शब्दायितुं प्रथममप्रतिभावतीव // 115 / / तासामिति / कुरङ्गादृशां मृगलोचनानाम् , तासां गन्धर्वराजतनुजानाम् , विपञ्ची वीणा, किञ्चित् अल्पम् , पुरः प्रथमम् , कलिता स्वीकृता, निष्कला निर्वि. शेषा, सामान्येत्यर्थः / काकली मधुरास्फुटध्वनिः यस्याः सा ताहशी सती। 'काकली तु कले सूचमे ध्वनौ तु मधुरास्फुटे' इत्यमरः / 'नद्यतश्च' इति कप समासान्तः। भैम्याः दमयन्त्याः, तथा तादृशी, या मधुरा मनोहारिणी, सुश्राव्या इत्यर्थः / कण्ठ. लता कण्ठस्वरसन्ततिः, तस्याः उपकण्ठे समीपे, शब्दायितुं सङ्गीतात्मकं शब्द कतम् 'शब्दवैर-' इत्यादिना क्य ततः तुमुन् / प्रथमम् आदौ, अप्रतिभावतीव प्रतिभा. रहिता इव, स्फूर्तिमप्राप्तेवेत्यर्थः / अभासत प्रतीयते स्म इत्यर्थः / विद्याधिकानां पुरः तोऽल्पविद्यस्य कण्ठो न स्फुरति इत्युचितमेवेति भावः // 111 // उन मृगनयनी ( गन्धर्वराजकन्याओं, या-दमयन्तीकी सखियों ) को पहले कलारहित काकली ( गायनारम्भमें की जानेवाली मधुरास्फुट ध्वनि ) करनेवाली वीणा दमयन्तीके वैसे अतिप्रसिद्ध ) मधुर कण्ठलताके समीपमें शब्द करने (बजने, पक्षा०-बोलने , के लिए पहले प्रतिमाशून्य-सी शोभित हुई / [ जिस प्रकार किसी विशिष्ट विद्वान्के सामने कम पढ़ा हुआ व्यक्ति पहले बोलने में बहुत संकुचित होता है, उसी प्रकार अतिशय मधुरभाषिणी दमयन्ती के कण्ठके पासमें उनकी मधुरास्फुट काकलीयुक्त बीणा भी हो गयी है, ऐसा शात होता था ] // 111 //