SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ एकविंशः सर्गः। 1459 सा यद्धृताऽखिलकलागुणभूमभूमीभैमीतुलाऽधिगतये स्वरसङ्गताऽऽसीत्। तं प्रागसावविनयं परिवादमेत्य लोकेऽधुनाऽपि विहिता परिवादिनीति / / ___ सेति / सा गन्धर्वराजतनुजानां वीणा, तानां प्राप्तानाम् , अखिलानां सर्वा. साम , कलानां नृत्यगीतादिविद्यानाम् , गुणानां सौशील्यसौन्दर्यादीनाञ्च, यः भूमा बाहुल्यम् , तस्य भूमी स्थानम् , आश्रयभूता इत्यर्थः / या भैमी दमयन्ती, तस्याः तुलाऽधिगतये सादृश्यलाभाय, भैमीकण्ठस्वरतुल्यस्वरप्राप्तये इत्यर्थः। यत् स्वरसङ्गता स्वरेण ध्वनिना, सङ्गता संयुता, ध्वनिकारिणीत्यर्थः / अथ च स्वरसं स्वयमेवानुरागम् , गता प्राप्ठा, आसीत् अभूत् , असौ वीणा, प्राक् पूर्वम् , तं तादृशम् , दम. यन्तीसाम्यलाभेच्छारूपमित्यर्थः / अविनयम् औद्धत्यम् , स्वस्या उत्तमेन साहश्यलाभाय धृष्टताप्रकाशरूपमित्यर्थः / परिवादं निन्दाम् , एत्य प्राप्य, अधुनाऽपि "इदानीमपि, लोके जगति, परिवादिनीति परिवादवती इति अथ च परिवादिनीति आख्या च, विहिता कृता, इव जनैरिति शेषः / 'विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी' इत्यमरः // 112 // वह वीणा ग्रहण किये गये (नृत्य-गीतादि ) सम्पूर्ण कलाओं तथा सौन्दर्य-सुशीलतादि) समस्तगुणोंकी अधिकताका आश्रय दमयन्तीकी समानता पाने के लिए (षड्ज आदि ) स्वरों ( पक्षा०-स्वाच्छन्द्य, या स्वानुराग) से जो युक्त हुई ? वह वीणा पहले संसारमें उस अविनय ( अत्युत्कृष्ट दमयन्ती-स्वर के साथ समानता करना) रूप परिवाद ( निन्दा ) को पाकर इस समय (इतने लम्बे समयके बीत जानेपर ) भो परिवादिनी (निन्दावाली, पक्षा०-सात तारों से बजनेवालो वीगा ) प्रसिद्ध है। .[ पहले भी अधिक गुगवतीसे भीत वीणा अपने उक्त प्रगस्भतारूप अविनयका स्मरण करती हुई इस समयतक भी उसी प्रकार भीत-सी मालूम पड़ती है / जैसा महाकवि भारवि ने कहा है-'अहो दुरन्ता बलवद्विरोधिता' (किरातार्जुनीय श२३)] // 112 // नादं निषादमधुरं ततमुज्जगार साऽभ्यासभागवनिभृत्कुलकुञ्जरस्य / स्तम्बेरमोव कृतसश्रुतिमूर्द्धकम्पा वीणा विचित्रकरचापलमाभैजन्ती।।११३।। नादमिति / सा गन्धर्वराजतनुजाभिः स्वरसङ्गता, वीणा विपञ्ची, अवनिभृकुल. कुत्रस्य राजवंशश्रेष्ठस्य, नलस्य इति शेषः / अन्यत्र-अवनिभृत्कुले भूधरसमूहे, यः कुञ्जरः हस्ती, पार्वत्यहस्तीत्यर्थः, तस्य अभ्यासं समीपम् , भजति आश्रयति या सा ताहशी, तथा कृतः विहितः, सश्रुतीनां द्वाविंशतिश्रुतियुक्तानां षड्जादीनाम् , मूर्दनि नादप्रान्ते, कम्पः कम्पितस्वरः यया सा ताहशी, यद्वा-सश्रुतीनां तद्ध्वनिश्रवणकारिणां लोकानाम् , मूदुनः शिरसा,कम्पःचालनं यया सा तादृशी, अन्यत्रकृतः विहितः, सश्रुतेः कर्णद्वयसहितस्य, मूळः शिरसः, कम्पः चालनं यया सा १.'-मारभन्ती' इति पाठान्तरम् /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy