________________ 1456 नैषधमहाकाव्यम् / शोभासे सुशोभित किया अर्थात् वे प्रासादपर गये ( पक्षा०-सूर्य भी भूमिसे अमृत भोजन करके अर्थात् जलको सुखाकर हर्षित होते हुए पूर्व दिशामें इन्द्रप्रासादके निकटस्थ उदयाचलको अपनी कान्तिसे सुशोभित करता है; परन्तु मध्याह्नके बाद पूर्व दिशामें उदयाचलको नहीं, अपितु पश्चिम दिशाके अस्ताचलको सुशोभित करता है और ये पृथ्वीसूर्य ( नल ) पूर्वपर्वतको सुशोभित करते हैं, यह आश्चर्य है। पाठा०-चन्द्र भी देव होनेसे अमृतमय भोजनसे हर्षित होते हुए....."अर्थ-परिवर्तनकर शेष अर्थ पूर्ववत करना चाहिये ) / [ दोपहर के बादमें पूर्वदिशाके उदयाचल पर्वततुल्य उच्चतम प्रासादको अपनी कान्तियोंसे सुशोभित करने के कारण नलका सर्वदा उदयशील रहना सूचित होता है ] // 106 // भीमात्मजाऽपि कृतदैवतभक्तिपूजा पत्यौ च भुक्तवति भुक्तवती ततोऽनु | तस्याङ्कमङ्कुरिततत्परिरिप्समध्यमध्यास्त भूषणभरीतितरालसाङ्गी / / 10 / / भीमेति / ततः पतिभोजनात् नलस्य वेश्माचलालङ्करणादिति वा, अनु पश्चात् , भूषणभरेण अलङ्कारभारेण, अतितराम् अत्यर्थम्, अलसानि जडानि, विवशानी. त्यर्थः / अङ्गानि अवयवा यस्याः सा तादृशी, भीमात्मना दमयन्ती अपि, कृता अनुष्ठिता, देवतानां देवानाम् , भक्त्या श्रद्धया, पूजा अर्चना यया सा तादृशी सती, पत्यौ भर्तरि नले, भुक्तवति कृतभोजने सति, भुक्तवती स्वयं च कृतनोजना सती, अङ्कुरिता उद्भूता, तस्याः कर्मभूतायाः दमयन्त्याः, परिरिप्सा आलिङ्गनेच्छा यस्य तादृशः, 'सनि मीमा-' इत्यादिना सनि इसादेशे 'भत्र लोपोऽभ्यासस्य' इति अभ्यासलोपः। मध्यः मध्यभागः यस्य तं तादृशम्, तस्य नलस्य, अङ्कम् उत्सङ्गम् क्रोडान्तिकमिति यावत् / अध्यास्त उपाविशत् // 107 // ___ तदनन्तर (गौरी आदि ) देवताओंका भक्तिपूर्वक पूजन करके तथा नलके भोजन करनेपर भोजन की हुई, भूषण-मारके अतिशय बोझसे आलसयुक्त अङ्गोंवाली दमयन्ती भी उत ( दमयन्ती) के आलिङ्गन करनेके लिए इच्छुक नलके अङ्कमध्य में स्थित हो गयी। [ भोजन करने के बाद आलस आना स्वाभाविक होनेसे यहां मृदङ्गी दमयन्तीको भूषणके बोझसे आलसयुक्त होना उचित ही है ] // 107 // तामन्यगादशितबिम्बविपाकचञ्चोः स्पष्टं शलाटुपरिणत्युचितच्छदस्य / कीरस्य काऽपि करवारिरहे वहन्ती सौन्दर्यपुञ्जमिव पञ्जरमेकमाली॥१८॥ __ तामिति / अशितस्य भक्षितस्य, बिम्बस्य तदाख्यफलविशेषस्य, विपाकः परिणतिः इव, अत एव अतिरक्तवर्णः इति भावः, चञ्चः नोटिः यस्य ताहशस्य आरक्तचञ्चविशिष्टस्य इत्यर्थः। तथा स्पष्टं व्यक्तं यथा भवति तथा, शलाटुनः आम. १.'-परिरिप्सु-' इति पाठान्तरम्। 2. '-भरातिभरा-' इत्येव पाठः साधीयान् , इति वदता 'प्रकाश' कृता'-भरातितरा-' इति पाठं लक्षीकृत्य 'पाठान्तरं चिन्त्यम्' इत्युक्तम् /