________________ एकविंशः सर्गः। 1455 विप्रपाणिषु भृशं वसुवर्षी पात्रसास्कृतपितृकतुकव्यः / श्रेयला हरिहरौ प्रतिपूज्य प्रब एष शरणं प्रविवेश / / 105 // विप्रेति / एषः नलः, विप्राणां ब्राह्मगानाम्, पाणिषु करेषु, भृशम् अत्यर्थम्, चसु धनम्, वर्षति विकिरति, ददातीत्यर्थः, यः सः तादृशः, तथा पात्रसास्कृतं सत्पात्रे दत्तम्, पितृकतोः पितृयज्ञस्य, श्राद्धस्य इत्यर्थः / कव्यं पित्र्यम् अन्नं येन सः ताह. शश्च सन् / 'हव्यकव्ये देवपैत्रे (पिये) इत्यमरः। नित्यश्राद्धमनुष्ठाय इति भावः / श्रेयसा उत्कृष्टवस्तुना, हरिहरौ विष्णुशिवौ, परिपूज्य अर्चयित्वा, प्रहः हरिहरचर. णयोः प्रगतश्च सन् , शरणं गृहम् , भोजनगृहमिति यावत् / 'शरणं गृहरचित्रोः' इत्यमरः / प्रविवेश प्रविष्टवान् // 105 // ब्राह्म गों के हाथों में ( दान-सम्बन्धो गौ, सुवर्ण रत्न आदि ) धनको बरसाने ( दान देने ) वाले, सत्पात्रोंको श्राद्ध-सम्बन्धी द्रव्य दिये हुए वे नल उत्तम द्रव्यों ( अथवा-नित्य स्नान, देवपूजन, श्राद्धादिकर्मजन्य पुण्य ) से विष्णु तथा शिवकी पूजा करके नम्र होते हुए ही भोजन-गृह में प्रवेश किये // 105 // माध्यन्दिनादनु विधेर्वसुधाविवस्वानास्वादितामृतमयौदनमोदमानः / प्राञ्चं स चित्र विदूरितवैजयन्तं वेश्माचलं निजरुचीभिरलञ्चकार / / 106 / / माध्यन्दिनादिति / वसुधाविवस्वान् भूलोकसूर्यः, सः नलः, मध्यन्दिनस्य मध्याह्नकालस्य अयमिति माध्यन्दिनः तस्मात् माध्यन्दिनात् दिनमध्यभागे विधेयात्, विधेः अनुष्ठानात् , देवार्चनादिरूपनित्य कार्यादित्यर्थः / अनु पश्चात् , पञ्चमहायज्ञानुष्ठानादनन्तरमित्यर्थः / आस्वादितेन भुक्तेन, अमृतमयेन पीयूषतु. त्येन, सुस्वादुनेत्यर्थः / ओदनेन अन्नेन, मोदमानः हृष्यन् , सानन्दमनाः सन् इत्यर्थः / प्राञ्चं प्राचीनम्, प्रासादात् पूर्वभागस्थमिति वा / 'शयनगृहं प्राच्यां कत्त. व्यम्' इति शयनशास्त्रादिति भावः / चित्रम् आश्चर्यम्, आश्चर्यदर्शनमित्यर्थः / अविदूरितः निकटीकृतः, अत्युच्चत्वादिति भावः / वैजयन्तः इन्द्रप्रासादः येन तं तादृशम्, वेश्माचलं प्रासादरूपं पर्वतम्, निजाभिः स्वोयाभिः, रुचीभिः कान्तिभिः प्रभाभिश्व, अलञ्चकार भूषयामास, सूर्यस्तु मध्याह्वात् परं पश्चिम दिगवस्थितम् अस्ताचलमेवालकरोति, अयं तु भूलोकसूर्यः मध्याह्वात् परमपि पूर्वाचलमलङ्करोतीति वित्रम् ! एवञ्च सदोदयभागयमिति भावः // 106 // __ पृथ्वी के सूर्य द!पहर के बाद (शाकादि नानाविध व्यञ्जन पदार्थोसे ) अमृतमय मातको खाकर इर्षित होते हुए उस नलने पूर्व दिशामें स्थित (अथवा-जिसमें पहले दमयन्तीके साथ रहे थे उस प्राचीन ), चित्रोंसे युक्त (अथवा-औन्नत्यादिके द्वारा आश्चर्यकारक ) और ऊँ बाईसे इन्द्रप्रसाद के निकटवतों ( या-इन्द्र पासादतुल्य ) पर्वताकार "महलको अपनी ___.-र्वसुधासुधांशुरास्वा-' इति पाठान्तरम् /