________________ 1448 नैषधमहाकाव्यम् / लोला चञ्चलाऽपि, श्रीः 'लक्ष्मीः , पादपाणिहृदयेक्षणे चरण-कर-वक्षःस्थल-वामनयने, वृत्तिः यथाक्रममवस्थानं येषां तादृशान् , जाह्नवी-जलज-कौस्तुभ-चन्द्रान् गङ्गा-पाञ्चजन्य-शङ्ख-कौस्तुभमणि-शशाङ्कान्, परिचितान् संस्तुतान्, समुद्रे एकत्रा. वस्थानेन विशेषतया परिज्ञातान् अत एव चिरकालप्रणयिन इति भावः / 'संस्तवः स्यात् परिचयः' इत्यमरः / परिचिन्त्य पर्यालोच्य, इवेति शेषः / स्वयि भवति, स्थिता विद्यमाना, चलाऽपि अचलत्वेन चिरं विद्यमाना इत्यर्थः / किम् ? इति शेषः / गङ्गाकमलादीनामपि आश्रयं त्वां प्रगमामीति भावः // 92 // ____ समुद्र-जलसे निकली हुई चञ्चल लक्ष्मी क्रमशः तुम्हारे चरण, हाथ, हृदय तथा ( वाम ) नेत्रमें स्थित गङ्गा, पाञ्चजन्य शङ्ख, कौस्तुभ मणि तथा चन्द्रमाको विचारकर आपके यहां स्थित हुई है क्या ? [ चञ्चल समुद्रजलसे उत्पन्न लक्ष्मी स्वभावतः चञ्चल होकर मी समुद्रजलजात होनेसे परिचित गङ्गादिको जानकर ही चञ्चलता छोड़कर तुम्हारे पास नित्य निवास करने लगी है क्या ? परिचितोंके पास निवास करना लक्ष्मीको उचित ही है ] // 92 // वस्तु वास्तु घटते न भिदानां यौक्तनकविधबाधविरोधैः / तत्त्वदीहितविजृम्भिततत्तद्भेदमेतदिति तत्त्वनिरुक्तिः / / 93 // वस्त्विति / हे विष्णो ! योक्ताः युक्तिसिद्धाः, नकविधाः ‘अनेकप्रकाराः, बाधाः प्रतिबन्धाः, विरोधाश्च विरुद्धभावाश्च तैः हेतुभिः, वस्तु पदार्थः, घटपटादिरूपद्रव्य. जातमित्यर्थः / भिदानां भेदानाम् , वास्तु आश्रयः, न घटते न युज्यते, तत् तस्मात् कारणात् , एतत् घटपटादिरूपं वस्तुजातम् , स्वदोहितेन भवदिच्छयैव, विजम्भितः विलसितः, प्रकटित इत्यर्थः / सः सः तादृशः तादृशः, भेदः विशेषः, घटपटादिरूप. वैषम्यमित्यर्थः / यस्य तत् तादृशम् , इति एवंरूपा, तत्त्वस्य याथायस्य, निरुक्तिः निर्वचनम् / मृन्निर्मितघटस्य मृन्मयत्ववत् एकमात्रमूलकारणोत्पन्न वस्तु एकविध मेव भवितुमर्हति, भेदे तु युक्तिसिद्धा बहवो बाधाः; तथा एकस्मादेव मूलकारणात् पृथक वस्तु जायते चेत् तदा तेजस औषण्यमिव शैत्यमपि जायेत इत्यादयश्च युक्तिसिद्धाः विविधा विरोधाः, एवञ्च घटपटादीनां यदयमन्योऽन्यभेदोऽनुभूयते, तन्न तात्विकः, परन्तु भवदिच्छाप्रेरितया अविद्याख्यया माययैव तत् भासते, अतस्त्वमे. वैकः सर्वमिदं वस्तु इति तत्वनिर्वचनमिति भावः // 93 // युक्तियुक्त अनेक प्रकारकी बाधाओं तथा विरोध से पदार्थ भेदाश्रित ( भेदयुक्त-विभिन्न ) नहीं होते, किन्तु तुम्हारी चेष्टाके विजम्भितसे वन्तु भेदाश्रित होते हैं, यही तात्त्विक सिद्धान्त है। [ 'सर्व विष्णुमयं जगत्' इस श्रुतिवचनके अनुसार घट-पटादि पदार्थों में वास्तविक विचारसे कोई भेद प्रतीत नहीं होता, किन्तु तुम्हारी इच्छाके विलासमात्र से दो चन्द्रमाके समान भेदप्रतीति होती है, अत एव श्रवण-मननादि क्रमसे आपका साक्षात्कार होनेपर एकमात्र आप ही इस सम्पूर्ण जगत्स्वरूप दीखते हैं, आपसे भिन्न किसी पदार्थका भेदशान नहीं होता 'वही 'तत्त्वमसि' इत्यादि उपनिषद्-वचनोंसे भी निश्चित होता है ] // 93 //