________________ 772 नैषधमहाकाव्यम् / यस्मात् , दमस्वसुः दमयन्त्याः, कनीनिका तारका, 'तारकाऽक्ष्णः कनीनिका' इत्यमरः, नीलिम्नो नैल्यस्य मालिन्यस्य च, आलयः आश्रयः, अत एव नलादन्यस्य पुंसः, वीक्षां वीक्षणं, 'गुरोश्च हलः' इति स्त्रियाम् अ-प्रत्यये टाप , तदेवागोऽपराध पापञ्च, 'पापापराधयोरागः' इत्यमरः विदधे, मलिनात्मानो हि मलिनकृत्यमेवा. चरन्तीति भावः; अपाङ्गस्तु कटाक्षः पुनः सविधे समीपस्थे, नैषधे सत्यनले, मिलन् संसक्तः, शुचिरक्तः श्वेतरको निर्मलानुरक्तश्च तस्य भावस्तत्ता तदुचितां सेवां रञ्जनं, चकार, साधवः साध्वेवाचरन्तीति भावः। एतेन कोकटपतावृजुदृष्टिपातादः नुरागाभावो नैषधे कटाक्षपातादनुरागश्चेति गम्यते, अत एव ऋजुदृष्टया कीकटवीनणम् अपि सखीवाक्यनिमित्तस्यानुसन्धानलौल्यात् ; अपाङ्गेनान्यदर्शने एव दोषः न तु ऋजुदृष्टया इत्यदोषः // 10 // नीलिमा ( नीलापन, पक्षा०-मलिनता) का आश्रय, दमयन्तीकी नेत्रकी पुतलीने नलसे भिन्न राजाका दर्शनरूप अपराध किया ( मलिन व्यक्ति मलिन ही कार्य करता है ), किन्तु समीपस्थ (द्वितीय पतिमें नलरूपधारी इन्द्रादि चारों देवोंके बादमें अथवा पासमें स्थित ) नलमें मिलते हुए कटाक्षने श्वेतिमा तथा रक्तता (सफेदी और लालिमा, पक्षा०शुद हृदयता तथा अनुरागयुक्तता ) के योग्य सेवा की। [ पतिव्रता दमयन्तीने कनखीसे अर्थात् अनुरागरहित सामान्य भावसे ही दूसरे राजाओंको देखा तथा पासमें स्थित सत्य नलको कटाक्षसे अनुरागपूर्वक देखा, अतएव परपुरुषदर्शनजन्य दोष दमयन्तीको नहीं लगा। काले ( मलिन ) कनीनिकाका दुर्जनोचित मलिन तथा श्वेत एवं रक्त ( पक्षा०शुद्ध हृदय एवं अनुरक्त ) कटाक्षका नलको ही देखकर सज्जनोचित व्यवहार करना उचित ही है / लोकमें भी शुद्ध हृदय एवं अनुरक्त सेवक योग्य सेवा तथा मलिन हृदयवाला निन्दित कार्य करता है ] // 108 // दृशा नलस्य श्रुतिचुम्बिनेपुणा करेऽपि चक्रच्छलनम्रकार्मुकः / स्मरः पराङ्गैरनुकल्प्य धन्वितां जनीमनङ्गः स्वयमादयत्ततः / / 10 / / तदा नलोऽपि तां सानुरागम् अवक्षत इत्याह, शेति / स्वयम् अनङ्गोऽगरहितः, अत एव स्मरो नलस्य दृशा दृष्टयैव, कटाक्षरूपयेति भावः, श्रुतिचुम्बिना कर्णान्ताकृष्टेन, इषुणा करणेन, तथा करेऽपि नलस्यैव करेऽपि, चक्रच्छलेन राजलक्षणचक्ररेखाव्याजेन, नम्रः अत्यन्ताकर्षणात् कोटिद्वयसंलग्नः, कार्मुकः कोदण्डो यस्य सः, पराङ्गः परस्य नलस्य, अङ्गः दृगादिभिः, परकीयसाधनैरेवेत्यर्थः, धन्वितां धानुष्कस्वम् , अनुकल्प्य, मुख्याभावे प्रतिनिधिरपि अङ्गत्वेन कल्प्यते इति शास्त्रात् कुशकाशवत् धानुष्कत्वेन सम्पाद्य, ततो जनीं वधूम , आर्दयत् अपीडयत् ; दमयन्त्यपि नलकटाक्षेण कामपीडिता अभूदिति तात्पर्यम् // 109 // 1. 'स्वयमार्दिदत्ततः' इति पा०।