________________ 1438 नैषधमहाकाव्यम् / संसारमोहः स एव तमोऽन्धकारस्तस्य विनाशहेतुत्वादस्तम् / योगमार्गोपदेशेन तस्य मोहं चिच्छेदेति पुराणकथा // 12 // ___ एवं दशावतारान्निर्वर्ण्य भक्त्यतिशयेन पुनरपि कियतस्तानेबावतारांस्त्रिविक्रम हरिहरौ बालमुकुन्दञ्च सङक्षेपेण चतुर्विशत्या श्लोकेर्वर्णयति-भानुसूनुमिति / हे विष्णो ! भानुसूनुं सूर्यपुत्रं सुग्रीवमनुगृह्य बालिहृतां तद्वधूं तारां तस्मै दत्वा राज्याभिषेकद्वारा कृतार्थीकृत्य राममूर्त्या रामावतारेण हतो मारितो वृत्रघ्न इन्द्रस्य पुत्रो बाली येन, स त्वं रामो जय सर्वोत्कर्षेण वर्तस्व / नमस्योऽसीत्यर्थः / तथा भो कृष्णावतार ! अहमिन्द्रनन्दनस्यार्जुनस्य सपक्ष मित्रभूतम् , अत एव निहतो मारितोऽकतनूजो येनेति वा / यो भानुसूनुमनुगृह्णाति स निहतार्कतनूजः कथम् ? तथाहतेन्द्रपुत्रः स इन्द्रपुत्रमित्रं कथम् ? इति विरोधार्थोऽपिशब्दः। निग्राह्यानुग्राह्ययोस्तत्पुत्रयो रामकृष्णावतारयोश्च भेदात्तु विरोधपरिहारः / एताविरुद्धचरितत्वाद् दुविज्ञेयः परमपुरुषोऽसीति भावः // 13 // वामनादिति / हे विष्णो ! अणुतमाद् हस्वतमशरीराद्वामनावतारादनु पश्चात् त्रिविक्रमावतारस्य तन्वा शरीरेण त्रिविक्रमावताररूपया वा तन्वा भृता व्याप्ता दिशो येन स त्वं जीयाः सर्वोत्कर्षण वर्तस्व / तथा-वीता निवृत्ता हिंसनकथा प्राणिवध. वार्तापि यस्मादेवम्भूताद् बुद्धावतारात् , अथ पश्चात् कल्किना दशमावतारेण कृत्वा हतं मारितं कलिमलदूषितं समस्तं प्राणिजातं येन तादृश विष्णो! ते तुभ्यं नमः। यो घणुतमः स एव तनूभृतदिको व्यापकदेहः कथम् ? तथा-यश्च वोतहिंसनकथ: स एव हतसमस्त इति विरोधः, अवतारभेदेन परिहारः। दुर्विज्ञेयचरितोऽसीति भावः / वामनत्रिविक्रमी वर्णितौ // 14 // मामिति / हे त्रिविक्रम ! त्वं मां पुनीहि / तथा-गगनव्यापिन्यूर्वीकृते ते पदे विष्णुपदे लगन् नक्षत्रमालामध्यवर्ती श्यामरूपो राहुरूपानद् अजनि किं पादरक्षिकेव जाता किम् ? / एतावदतिमहच्छरीरं पृतम् , यस्य चरणस्थाने गगनस्थो राहुरुपा. नदिव जात इत्यर्थः / सापि हि श्यामा, चरणे च लगति / तथा-प्रदक्षिणनं प्रदक्षिणाख्यं पञ्चदशमुपचारं कुर्वन् जाम्बवान् ऋक्षराजो ब्रह्मावतारो बलिनिबन्धननिमित्तं ते तुभ्यं भ्रमिपाशं परिभ्रमणरूपं वलयाकारवेष्टनमेव पाशं बन्धनरज्जुमेवादित दत्तः वान् किम् ? / यो हि कञ्चिद्धन्धुमुपक्रमते तस्मै केनचित्पाशो दीयते / यद्यपि देवेन बलिर्वाग्बन्धमेव प्रापितः, न तु रज्ज्वादिबन्धम् तथापि लोके बद्ध इति प्रसिद्धिवशा. द्वन्धनशब्दच्छलेन कविः पाशशब्दं प्रायुक्त / जाम्बवान् किल तदा त्रिविक्रमस्य षोडशोपचारपूजामकृतेति प्रवादः / अत्रापि त्रिविक्रमो वर्णितः। 'बन्धे' इति पाठे तृनन्ताद्वन्धेश्चतुर्थी 'ते' इत्यस्य विशेषणम् / 'बन्धः' इति तस्मादेव सम्बुद्धिः // 15 // (हे भदयवादिन् घट-पटादि भेदको असत्य मानकर एक शानाकारको ही माननेसे