________________ एकविंशः सर्गः। 1437 स्वदीयस्तुतिपरत्वाद् ब्रह्मणो लोकत्रयेऽप्येवं कीर्तिरजनीति भावः / तथा-शर्वो हर. स्त्वयि बुद्ध एवाशेषविदि सर्वज्ञे जाग्रति सति सर्वविदं सर्वज्ञमात्मानं ब्रूते स सर्ववि. ब्रुवस्तत्तयेव परगुणस्यात्मन्यारोपेण हेतुना कलङ्केन शितिकण्ठो नीलकण्ठः, न तु कालकूटभक्षणेन नीलकण्ठः, त्वरस्पर्द्धितया लोकत्रयेऽपि महेशस्यैवमयशो जातमि. त्यर्थः / ब्रह्ममहेशाभ्यामपि सकाशाश्वमेव परमपुरुषः सर्वज्ञ इति भावः / अन्यस्या. च्यात्मस्तुत्या सर्वसन्निधौ लजया मालिन्यं भवति / सर्वविद्मवेति विदुषिवेतिवत्॥ ___ श्लोकद्वथेन करिकनं स्तौति-धूमवदिति / त्वं धूमवत् कालं करवालं खड्गं युधि म्लेच्छः सह युद्धे कलयता धारयता, मृत्युरूपं खड्गं धूममिव धारयता वा। अत एव-ग्लेच्छानां कल्पशिखिना प्रलयकालानलरूपेण म्लेच्छा इव म्लेच्छाः पापिनस्तेषां वा, म्लेच्छप्रायाणां वा, एवम्भूतेन कल्किसंज्ञेन दशमावतारेण कृत्वा मम दशतयं दशावयवं कल्कं पापं व्युदस्य निराकुरु / समूलमुन्मूलयेत्यर्थः। अथच-यः स्वयं कल्की सोऽन्यकल्क विनाशयतीति विरोधः। कल्किशब्दस्य विष्णुनामस्वारपरिहारः। म्लेच्छकल्पशिखिनेत्यवतारप्रयोजनमुक्तम् / अदत्तस्य वस्तुनः स्वयं ग्रहणम् , यागीयातिरिक्ता हिंसा, परस्त्रीगमनञ्च (इति) त्रिविध कायिकम् / पारुष्यम् , अनृतम् , पेशुन्यम् , असम्बद्धप्रलापश्चेति चतुर्विधं वाचिकम् / परद्रव्यग्रहणेच्छा, परानिष्ट. चिन्ता, वृथैव परेषु दोषाभिध्यानञ्चेति त्रिविधं मानसम् / इति दशविधं पापम् / चतुस्त्वक्श्रोत्रघ्रागजिह्वापाणिपादपायूपस्थमनोजन्यं वा / दशसु मासेषु भवत्वाद्दर्भ वासलक्षणं दुःखमिति वा / 'कल्कः पीपाशये पापे' इति विश्वः / / 10 // देहेनेति / विष्णुयशसस्तन्नामकस्य जनयितुः पितुः विष्णुरिति नाम भवता च स्वयैव कृत्वा सदर्थ सान्वयमभूत् / किम्भूतेन भवता-रणरेणुभिरुच्चैः पाण्डुरेण धवलतरेण तथा-दुष्टगवेषणार्थमुव्यां भ्रमता विष्णुना व्यापकेन विष्णुसंज्ञकेन च पाण्डुरत्वाद्वयापित्वाञ्च देहिना शरीरधारिणा यशसेव यशोरूपेण विष्णु व्यापकं यशो यस्य त्वया पुत्रेणेति यावत् / तस्य तव पितुर्नाम सान्वयमभूत् , जातप्रायमे. वेति भाविन्यपि भूतवदुपचारः। अतीतकलियुगान्तापेक्षयाऽभूदिति निर्देशो वा। पूर्व तु डित्थादिवत्तन्नामाभूत् , खय्युत्पन्ने तु तत्सार्थकमभूदित्यर्थः // 11 // - दत्तात्रेयं स्तौति-सन्तमिति / अहं दत्तात्रेयनामानं त्वां नौमि / किम्भूतम्अद्वयमयेऽध्वनि अद्वैतमार्गे ऐकाम्यवादे सन्तं वर्तमानम् , तथा-अर्जुनस्य कार्तवीर्यार्जुनस्य यशसो यदर्जनं तस्य बीजं मूलम् / कार्तवीर्येणाराधितो दत्तात्रेयस्तव यशो लोकध्यापि भविष्यतीति वरं दत्तवान् / 'दुर्जन-' इति पाठे अर्जुनयश 'एवा. र्जुनो वृक्षः, तस्य बीजम् / वृक्षस्योत्पत्तिर्बीजादेव युक्ता / अथच-अर्जुनं धवलं यशो यस्यवंविधोर्जुनः कार्तवीर्यस्तस्य बीजम् / तथा-अष्टाङ्गयोगेन जनितोत्पादिता पापादिराहित्यादनघ इत्यपरा संज्ञा यस्य / तदा हि देवयोगबाहुल्यादनघेति संज्ञा कृता / तथा अलकनाम्नः शत्रुभ्वजमदालसापुत्रस्य राज्ञो भवमोहो ममतादिरूपः