________________ एकविंशः सर्गः। 1435 भानुसूनुमनुगृह्य जय त्वं राममूर्तिहतवृत्रहपुत्रः / इन्द्रनन्दनसपक्षमपि त्वां नौमि कृष्ण ! निहतार्कतनूजम् / / 13 / / वामनादणुतमादनुजीयास्त्वं त्रिविक्रमतनूभृतदिकः / / वीतहिंसनकथादथ बुद्धात्कल्किना हतसमस्त ! नमस्ते // 14 // मां त्रिविक्रम ! पुनीहि पदे ते कि लगन्नजनि राहुरुपानत् / किं प्रदक्षिणनकृभ्रमपाशं जाम्बवानदित ते बलिबन्धे / / 15 // ) चतुर्भिः श्लोकैर्बुद्धं वर्णयति-एकेति / हे अद्वयवादिन् द्वैतबाह्यघटपटादिभेदानामसत्यताप्रतिपादनेनैकस्या ज्ञानाकारताया एव सत्यताङ्गीकारादद्वैतवादिन् ! स्वं मां पाहि। किम्भूतः?-एकैव चित्तततिर्ज्ञानसन्ततिर्यस्य दीपकलिकान्यायेन क्षणिकज्ञानप्रवाह एवैको यस्य मते, न तु तदतिरिक्तं किञ्चिदप्यस्ति, तादृशः, अत एव-अद्वयवादिन् इति योजना। तथा-त्रय्या परिचितो ज्ञातस्ताहशो न भवसी. त्यत्रयीपरिचितः / नसमासो वा नेति पृथग्वा / वेदत्रयीगम्योऽपि न भवसीत्यर्थः / अथच-वेदत्रयां परिचितः कृतपरिचयो वेदत्रयी परिचिताऽभ्यस्ता येन तादृशो वा न भवति / सर्वस्य क्षणिकाङ्गीकाराद्धर्माधर्मव्यवस्थाया निरासादनङ्गीकृतवेदप्रामाण्य इत्यर्थः / अत एव बुधः पण्डितः। न हि पण्डितं विना वेदादिसर्वदूषणसमर्थाऽन्यस्य बुद्धिः सम्भवति / अथच-अत्रयीपरिचितोऽपि बुध इति विरोधा. भासः / न हि वेदत्रयमजानानस्यापि पण्डितत्वं सम्भवति / अथच-यः पण्डितः 'एकमेवाद्वितीयं ब्रह्म' इति मन्यमानो वेदान्ती स वेदत्रयीं न मन्यत इति विरोधः। वेदान्तिना हि वेदप्रामाण्यस्य स्वीकृतत्वात् / अथच-अद्वयवादाद् द्वित्वसङ्ख्यामपि नाङ्गीकरोति / स द्वित्वसङ्खयां न मन्यत इति युक्तमेवेत्यर्थः। तथा-माध्यमिका. नामपि कियन्मात्रमतभेदेन बौद्धसिद्धान्तान्तःपातित्वात् / 'न सगासन सदसन्नचाप्यनुभयात्मकम् / चतुष्कोटिविनिर्मुक्तं तत्वं माध्यमिका विदुः।' इत्यनिर्वचनीयप्रपञ्चवादित्वाद्विधुतं निराकृतं सदसरसदसद्वैलक्षण्यलक्षणं कोटिचतुष्कं प्रकारचतुष्टयं येन, अथच-त्रित्वनिषेधानिरस्तचतुष्टयः। तथा-विरक्तवादिगम्बरवास्पश्चबाणः कामस्तद्विजयी मारजित् / अथच-'बण शब्दे' इत्यस्मानि बाणशब्दस्तं पञ्चसङ्ख्यावाचिन पञ्चशब्दं न सहत इत्यर्थः / यो हि चतुष्टयं न सहते स पञ्चापि न सहत इति युक्तमेवेत्यर्थः / तथा-देशादिव्यवहितवस्तुदर्शनम्, देशादिव्यवहितशब्दश्रव. णम् , अतीतजन्मस्थितिस्मरणम् , परचित्तज्ञानम् , अविद्याऽस्मितारागद्वेषाभिनिवे. शाख्यपञ्चक्लेशक्षयः, अणिमादिसिद्धिश्चेति षडभिज्ञा ज्ञानप्रकारा यस्य / वेदानुसा. रिभिदैत्यैः पराभूता देवा ब्रह्माणं शरणं गताः, ब्रह्मणा प्रसादितो नारायणो बुद्धरूपे. 1. बलिबन्धे' इति पाठान्तरम् / 60 नै० उ०