________________ एकविंशः सर्गः। 1426 भावः / भिया भयेन हेतुना, दिवि स्वर्गेऽपि, सुरवधूनां रम्भादीनां देवाङ्गनानाम्, सुरतस्य मैथुनसुखसम्भोगस्य, ज्ञः अभिज्ञः, मा स्म भूत् न भवतु, भीष्म इति भावः / इति एवम् , विचार्येव इति शेषः / नितराम् अस्यर्थम्, भक्कम् अनुरागिणं सेवकमपि, आपगायाः नद्या गङ्गाया अपत्यमिति आपगेयं गाङ्गेयम्, भीष्ममित्यर्थः / वरेण त्वं सशरीर एव स्वर्ग गच्छ इति वरप्रदानेन, सशरीरं देहसहितम्, यां स्वर्गम, न अनयः न नीतवान् , स्वमिति शेषः। किन्तु स्वर्गादपि श्रेष्ठं मोतं प्रापितवानित्यपूर्व ते भक्तवात्सल्यमिति भावः // 78 // (पूर्ण प्रतिशात ब्रह्मचर्य व्रतके नष्ट होनेके भयसे सशरीर स्वर्गप्राप्ति करने पर) स्वर्ग में भी देवाङ्गनाओंका सङ्ग न हो, ऐसा विचारकर आपने परमभक्त भी भीष्मपितामहको बरदान से सशरीर स्वर्गमें नहीं पहुंचाया। [ भीष्मने ब्रह्मचारी रहनेका व्रत लिया था, अत एव 'यदि मैं इनको सशरीर स्वर्गमें वरदान देकर भेजता हूं तो वहां पर देवाङ्गनाके सङ्गसे इनका व्रत भङ्ग हो जायेगा, इसी भयसे आपने परमभक्त भी भीष्मको वरदान देकर सशरीर स्वर्गमें नहीं पहुंचाया, किन्तु उससे मी उत्तम मोक्षपद दिया। अतएव आप-परम भक्तवत्सल हैं ] // 78 // पौराणिक कथा-सन्यवतीसे विवाह करने के इच्छुक पिताकी इच्छाको पूर्ण करने के लिए भीष्मने सत्यवती के पिताके कहनेसे आजन्म ब्रह्मचारी रहनेका व्रत धारण कर लिया था / यह कथा महाभारतमें आई है। ___घातितार्कसुतकर्णदयालु त्रितेन्दुकुलपार्थकृतार्थः / अद्धदुःखसुखमभ्यनयस्त्वं साश्रुभानुविहसद्विधुनेत्रः / / 76 / / घातितेति / घातितः विनाशितः, अर्जुनेनेति शेषः। यः अकसुतः सूर्यपुत्रः, कर्णः अङ्गराजः, तस्मिन् दयालुः कारुण्यपरः अत एव अर्करूपदक्षिणनयनस्य साश्रुत्वमिति भावः / तथा जैत्रितः जेता कृतः, इन्दुकुलः चन्द्रवंशजातः, यः पार्थः अर्जुनः, तेन कृतार्थः सफलमनोरथः, भूभारहरणरूपनिजावतरणप्रयोजनस्य साफल्यादिति भावः / एवञ्च चन्द्ररूपवामलोचनस्य हर्षविहसितत्वमिति भावः / एवञ्च यथाक्रमं साश्रुः रोदनजल सहितः, भानुः सूर्यश्व, विहसन् हर्षेण विकासमाप्नुवन् , विधुः चन्द्रश्च, तो नेत्रे दक्षिणवामलोचनद्वयं यस्य सः तादृशः, सूर्याचन्द्रमसी नारायणस्य भगवतः नेत्रद्वयमिति श्रुत्युक्तत्वात् , त्वं भवान् , दुःखं सुखञ्च दुःखसुखम् दुःखसुखस्य अर्द्धम् 'अर्द्ध नपुंसकम्' इति अर्द्धशब्दस्य पूर्वनिपातः / पर्यायक्रमेण अर्द्धदुःखम् अर्द्धसुखश्चेत्यर्थः / अभ्यनयः अभिनीतवानसि / अभ्यनय इत्यनेन निष्क्रियस्य ते न काऽपि वास्तविकी क्रिया विद्यते, यास्तु क्रियाः तव दृश्यन्ते, तत् सर्वमेवाभिनयमात्रमिति सूचितवानिति भावः // 79 // ( कौरव-पाण्डवके युद्ध में ) सूर्य-पुत्र ( कर्ण) को मरवाने तथा चन्द्रकुलोत्पन्न अर्जुनको