________________ नैषधमहाकाव्यम् / पांशुला बहुपतिनियतं या वेधसाऽरचि रुषा नवखण्डा / तां भुवं कृतवतो द्विजभुक्तां युक्तकारितरता तव जीयात् / / 64 // ___ पाशुलेति / हे जामदग्न्य ! विष्णो ! पांशुला रजोयुक्ता, स्वैरिणी च / 'सिध्मादिभ्यश्च' इति मत्वर्थीयो लच् / 'स्वैरिणी पांशुला समा' इत्यमरः / बहवः अनेके, पतयः स्वामिनः यस्याः सा बहुपतिश्च अनेकाधिपतिका, अनेकोपपतिका च, या भूः, वेधसा ब्रह्मणा, नियतं निश्चितमेव, रुषा कोपेन हेतुना, नव नवसङ्ख्यकानि, खण्डानि अंशाः, भारतादीनि वर्षाणीत्यर्थः / यस्याः सा, नव नवभागेन विभक्तानि, खण्डानि छेदनेन शकलीकृतानि अङ्गानि यस्याः सा तादृशी च, अरचि रचिता, भारतादिवर्षभेदेन नवधा विभक्तीकृता छेदनेन नवधा विभक्तीकृता चेत्यर्थः। तां पूर्वोक्तरूपाम् , भुवं पृथिवीम् , काञ्चित् स्त्रियञ्च, द्विजैः कश्यपादिभिः ब्राह्मणैः, मांसाशिभिः पक्षिभिश्च / 'दन्तविप्राण्डजा द्विजाः' इत्यमरः। भुक्तां प्रतिग्राहणेन भोगविषयीकृतां खादिताञ्च, कृतवतः विहितवतः, ते तव, युक्तकारिषु उचितकर्मः करेषु प्रकृष्ट इति युक्तकारितरः, तस्य भावस्तत्ता युक्तकारितरता अतिशयेन विवे. किता, जीयात् जयतु / निखिलक्षत्रियविनाशनेन अधिकृताया भूमेः ब्राह्मणसारकर. स्यैव औचित्याद् बहुजारभुक्ताया हि स्त्रिया भर्ना खण्डशः कृत्वा पक्षिभिः खाद. नाया औचित्याच्चेति भावः / / 64 // धूलियुक्त एवं ( मनु आदि ) बहुत पतियोंवाली जिस पृथ्वीको ब्रह्माने मानो क्रोधसे ( 'भारत' आदि ) नव खण्डोंमें विभक्त कर दिया ( पक्षा०-व्यभिचारिणी एवं बहुत जारोंवाली जिस स्त्रीको पतिने क्रोधसे नव टुकड़ों में काट दिया ), उस ( पृथ्वी, पक्षा०-स्त्री) को ब्राह्मणों ( पक्षा०-गीध आदि पक्षियों ) से मुक्त ( भोग की गयी, पक्षा०-खायी गयी) बनानेवाले तुम्हारी अधिक उचितकारिता विजयिनी ( सर्वोत्कृष्ट ) होवे। [व्यभिचारिणी एवं बहुत जारोंवाली स्त्रीको क्रोधसे नव टुकड़ों में काटकर गीध आदिको खिलाने के समान धूलियुक्त मन्वादि बहुत पतिवाली 'भारत' आदि नव 'खण्डोंमें विभक्त पृथ्वीको क्षत्रियोंका संहारकर उनसे छीनकर ब्राह्मणोंके लिये दान करना तुम्हारा अत्यन्त - उचित कार्य था] // 64 // 1. भारतादिनवखण्डानां (वर्षाणां) नामानि यथा 'स्याद्भारतं किम्पुरुषं हरिवर्ष च दक्षिणाः। रम्यं हिरण्मयकुरू हिमाद्गुरुत्तरास्त्रयः॥ भद्राश्वकेतुमालौ तु द्वौ वर्षों पूर्वपश्चिमौ / इलावृत्तं तु मध्यस्थं सुमेरुयंत्र तिष्ठति // ' इति / एषां सीमां ब्रुवन् क्षीरस्वामी त्वष्टावेव वर्षाण्याह तच्च अमरकोषस्य 'लोकोऽयं भारतं वर्ष (2016)' इत्यस्यास्मस्कृतायाम् 'अमरकौमुघाख्यटिप्पण्यां द्रष्टव्यम् /