________________ 1416 नैषधमहाकाव्यम् / भोगिभिरिति / हे बले ! क्षितितले भूलोके, दिवि स्वर्गे वा, चिरं बहुकालं, व्याप्य, ध्रियमाणः अवतिष्ठमानः / धृङ् अवस्थाने इत्यस्य रूपम् / स्वमिति शेषः / भोगं सुखमेषामस्तीति तादृशैः भोगिभिः सुखिभिः, जनैरिति शेषः / सह सार्द्धम् , वासम् अवस्थानम , तथा बन्धं सख्यबन्धनञ्च, एप्यसि प्राप्स्यसि, मम करे दानवारिप्रदानादिति भावः / अत एव एषः अयम् / पाणिः हस्तः, मया' प्रसारित इति शेषः / भुवनं जलम्, दानवारीति यावत् / वितर देहि, अत्र पाणौ इति शेषः / अन्यच्चहे बले ! दिवि स्वर्ग, स्वर्गतुल्यपरमरमणीये इत्यर्थः / क्षितितले.रसातले, चिरं दीर्घकालं व्याप्य, ध्रियमाणः अवतिष्ठमानः, स्वमिति शेषः, भोगिभिः सः सह, वासम् अवस्थितिम , बन्धं बन्धनञ्च, एष्यसि प्राप्स्यसि, एषः पाणिः, मया प्रसारितः इति शेषः, भुवनं लोकम् , इन्द्रात बलपूर्वकं गृहीतम् अत एव तस्यैव माप्यमिति भावः। 'भुवनं विष्टपे तोये' इत्यजयपालः / वितर समर्पय, हे वामन ! इत्यनेन प्रकारेण, छभवाग्भिः कपटवचनैः, विश्वं जगत् , अव रक्ष // 61 // ( ऐसा ( 21 / 60 ) बलिके कहनेपर वामनरूपधारी आपने कहा कि-हे बले ! ) 'भूतलपर या स्वर्ग में रहते हुए तुम भोगयुक्त अर्थात् सुखो लोगों के साथ चिरकालतक निवास एवं मैत्रीबन्धनको पावोगे, ( दान लेने के लिए मेरा ) यह हाथ ( फैला अर्थात् आगे की ओर बढ़ा हुआ ) है, ( दान-सम्बन्धी ) जलको दो; ( पक्षा०-सुखकारक हो से ) स्वर्गतुल्य ( अथवा-स्वर्गभिन्न ) पाताल में सोके द्वारा ग्रहण किये गये तुम चिरकालतक बन्धन पावोगे एवं निवास करोगे / अथवा-चिर काल तक जीवित रहते हुए तुम सपोंके साथ निवास एवं बन्धनको प्राप्त करोगे ) / ( सुदर्शनको चलाने के लिए तत्पर मेरा ) यह हाथ है, (इन्द्रसे छिने हुए ) स्वर्गलोकको वापस करो' इस प्रकार कपट-वचनोंसे उपलक्षित हे वामन भगवान् ! आप संसारकी रक्षा करें // 61 // आशयस्य विवृतिः क्रियते किम् ? दित्सुरस्मि हि भवञ्चरणेभ्यः / विश्वमित्यभिहितो बलिनाऽस्मान् वामन ! प्रणतपावन ! पायाः // 62 / / भाशयस्येति / हे वामन ! आशयस्य अभिप्रायस्य, प्रतिग्रहाभिलाषस्येत्यर्थः / 'अभिप्रायश्छन्द आशयः' इत्यमरः / विवृतिः विवरणम् , प्रकाश इत्यर्थः / किं किम. थम् , क्रियते ? विधीयते ? हि यतः, भवञ्चरणेभ्य इति पूज्यताऽतिशयद्योतनपरम् , भवञ्चरणेभ्यः पूष्यतमाय भवते इत्यर्थः / विश्वं सर्वा एव सम्पद इत्यर्थः। दित्सुः स्वयमेव दातुमिच्छुः, अस्मि भवामि / अन्यच्च हे वामन ! शयस्य हस्तत्य, आ सम्यक , विवृतिः प्रसारणमित्यर्थः / किं कथम् , क्रियते ? विधीयते ? त्वयेति शेषः / दानग्रहणार्थमिति भावः / हि यतः, भवतः तव, चरणेभ्यः त्रिभ्यः एव पादेभ्यः, न तु पाणौ इति भावः / विश्वं जगत् , दित्सुः अस्मि, प्रणतानां पावन ! हे भक्तजनचि. त्तशोधक ! वामन ! इत्यनेन प्रकारेण बलिना दानवेन्द्रेण, अभिहितः उक्तः स्वमिति