________________ 1412 नैषधमहाकाव्यम् / दिक्षु यत्खुरचतुष्टयमुद्रामभ्यवैमि चतुरोऽपि समुद्रान् / __ तस्य पौत्रिवपुषस्तव दंष्टा तुष्टयेऽस्तु मम वास्तु जगत्याः / / 5 / / दिदिवति / हे विष्णो ! दिक्षु चतसृषु आशासु, चतुरः चतुःसङ्घयकान् अपि, समुद्रान् सागरान् , यस्य वराहमूत्तिधरस्य, खुराणां चतुष्टयस्य चतुःसङ्ख्यकशफस्य, मुद्रां चिह्नम् , खुरेण विदलनजनितखातरूपचिह्नमिति यावत् , अभ्यवेमि जानामि, तस्य उक्तविधस्य, पोत्री वराह एव / 'वराहः शूकरो घृष्टिः कोलः पोत्री किरः किटिः' इत्यमरः / वपुः शरीरं यस्य तादृशस्य, तव भवतः, जगत्याः पृथिव्याः, वास्तु वेश्मस्थानम् , रसातलप्रदेशादुद्धत्य दंष्टोपरिस्थापनेन आवासभूता इत्यर्थः / 'वेश्मभूर्वास्तुरस्त्रियाम्' इत्यमरः / दंष्टा विशालदन्तः, मम मे, तुष्टये वाञ्छापूरण. जनितप्रीतये, अस्तु भवतु // 55 // ___ ( अब दो श्लोकोंसे वराहावतारकी स्तुति करते हैं- ) मैं ( पूर्वादि चारों ) दिशाओं में चारों समुद्र को जिस ( वराहरूपधारी विष्णु ) के खुरोंका चिह्न ( खुरोंसे उत्पन्न गर्त-विशेष ) समझता हूँ, उस वराहरूपधारी तुम्हारी (विष्णु भगवान्की ) पृथ्वीका गृह ( आधारभूत ) वह दंष्टा (विशालतम दाँत ) मेरे कल्याणके लिए हो // 55 // उद्धृतिस्खलदिलापरिरम्भाल्लोमभिर्बहिरितैर्बहुष्टः। ब्राह्ममण्डमभवद् बलिनीपं केलिकोल ! तव तत्र न मातुः / / 56 / / उद्धतीति / केलिकोल ! हे क्रीडावराह ! लीलाप्रदर्शनार्थं वराहरूपधारिन् ! तत्र ब्रह्माण्डे, न मातुः अवकाशम् अलभमानस्य, अतिविपुलदेहतयेति भावः / मा-धातोस्तृधि षष्ठयेकवचनरूपम् / तव भवतः, उद्धती जलाद् उद्धरणसमये, स्खलन्त्याः दन्तात् पतन्त्याः, इलायाः पृथिव्याः, परिरम्भात् सयानधारणात् आलिङ्गनाच्च हेतोः, बहु अत्यथं यथा भवति तथा, हृष्टैः विकसितैः, पुलकितैरि. त्यर्थः / उद्गतै रिति यावत् , बहिब्रह्माण्डस्य बहिःप्रदेशे, इतैः गतेः, लोमभिः तनुरुहैः साधनैः, ब्राह्मम् अण्डं ब्रह्माण्डम् , बलिनीपं तव पूजार्थं कदम्बकुसुमम्, इति शेषः, अभवत् अजायत // 56 // हे क्रीडासे ( अनायास-बिना परिश्रमके ) वराहरूप धारण किये हुए (विष्णु भगवान् ) ! तुम्हारे ( अतिशय विशाल ) ब्रह्माण्ड में नहीं समाते अर्थात् छोटा पड़ते हुए, (हिरण्याक्षको मारकर पातालसे ) ऊपर उठाते समय स्खलित होती हुई पृथ्वीके आलिङ्गन ( यत्नपूर्वक धारण ) करनेसे बाहर निकले हुए अत्यन्त इर्षित रोमोसे ब्रह्माण्ड पूजामें समर्पित कदम्ब-पुष्पके समान हो गया / [ वराहरूप धारणकर हिरण्याक्ष नामक दैत्यको मारकर जब आप पातालसे पृथ्वीको दांतपर रखकर यत्नपूर्वक ऊपर उठाने लगे तो ब्रह्माण्डरूप आपका शरीर रोमाञ्चयुक्त होकर ऐसा मालूम पड़ता था कि ब्रह्माण्डरूप आपके शरीर 1. 'मातः' इति पाठः 'प्रकाश'सम्मतः / 'मा माने' इत्यस्माच्छतृप्रत्यये सिद्धिः।