________________ 1406 नैषधमहाकाव्यम् / राज्ञि कृष्णलघुधूपंजधूमाः पूजयत्यहिरिपुध्वजमस्मिन् / निर्ययुर्भवधृता भुजगा भीर्यशोमलिनिता इव जालैः // 44 // राज्ञीति / अस्मिन् राज्ञि नले, अहिरिपुः नागारिः, गरुडः इत्यर्थः। ध्वजः लान्छनम् , ध्वजे रथचुडायामित्यर्थो वा, यस्य तं विष्णुम, पूजयति अर्चयति सति, भिया अहिरिपुभयेन, यत् दुर्यशः भीरुत्वापवादः, तेन मलिनिताः स्वभावतः शुभ्रा अपि मलिनीकृताः, भवेन शम्भुना, तन्नैव प्रतिष्ठितेनेति भावः / धृताः भूषण स्वेन परिगृहीताः, भुजगाः वासुकि प्रमुखाः शुभ्रस इव, कृष्णाः कृष्णवर्णाः, लघवः अगुरवः / 'शीघ्र मनोज्ञे निःसारे लघुः स्यादगुरुगुमे' इति शाश्वतः। तेशं धूपजाः धूपोत्थाः, धूपदानाय कालागुरुकाष्ठदहनोत्पन्ना इत्यर्थः / धूमाः, जालः गवाक्षविवरः, निर्ययुः निर्गताः / भवशरीरे भूषणस्वेन वृताः विशदा अपि भुजगाः पूज्यमाननारा. यणस्य रथचजस्थितस्वशत्रुगरुडदर्शनात् भयेन मलिनाः इव सन्तः धूपजातकृष्णधूमरूपेण बहिर्निर्जग्मुरित्यर्थः // 44 // " इस राजा ( नल ) के गरुडध्वज ( विष्णु ) की पूजा करते रहनेपर खिड़कियों के छिद्रोंसे काले अगरके धूपके धूएँ ऐसे मालूम पड़ते थे कि (गरुड़से उत्पन्न ) भयरूपी अयशसे मलिन किये गये, ( उस देव-पूजा-गृहके एक भागमें ही प्रतिष्ठित ) शिवजीके द्वारा ग्रहण किये गये सर्प निकल (भाग) रहे हों / [ सर्प हमारे शत्रु ( गरुड़) के ध्वजचिह्नवाले विष्णुकी पूज! हो रही है, अतः वह हमारा शत्रु गरुड आकर हमलोगोंको खा जायेगा, इस मयरूपी अपयशसे ( स्वमावतः स्वच्छ होते भी ) मलिन हुये, शिव-शरीर-भूषणभूत सोके समान काले अगरके धूएँ खिड़कियों के छिद्रों से निकल रहे थे। लोकमें भी शत्रुके भयसे मलिन व्यक्ति मुख्य द्वारको छोड़कर खिड़की आदिके मार्गसे भाग जाता है / नलने विष्णुभगवान्को धूप अर्पण किया ] // 44 // अर्घनिःस्वमणिमाल्यविमित्रैः स्मेरजातिमयदामसहस्रैः / तं पिधाय विदधे बहुरत्नक्षीरनीरनिधिमग्नमिवैषः // 45 // अर्धति / एषः नलः, अर्घेण मूल्येन, निःस्वानां दरिद्वाणाम,अमूल्यानामित्यर्थः / मणीनां रस्नानाम् , माल्यः स्रग्भिः, विमित्रैः संयुक्तैः, स्मेराणां विकसितानाम् , जातिमयदाम्नां मालतीकुसुमनजाम् , सहस्रैः समूहैः, तं विष्णुम, पिधाय आच्छाद्य, बहुरत्नझीरनीरनिधी बहूनि, रत्नानि मणयो यस्मिन् तादृशः, यः क्षीरनीरनिधिः क्षीरोदसमुद्रः, तत्र मग्नम् इव, विदधे चकार / अत्र क्षीरस्थानीयाः शुभ्रमालती. कुसुमस्त्रजः रत्नस्थानीयानि च मणिमाल्यानीति बोध्यम् / / 45 // अमूल्य मणियोंकी मालाओंसे मिश्रित, विकसित जाति-पुष्पोंकी सहस्रों मालाओंसे 1. '-धूपन-' इति पाठान्तरम् /