________________ एकविंशः सर्गः। 1405 जानाम्, घटनां रचनाम् श्वेतपद्ममाल्यार्पणमित्यर्थः। अरुणमणेः पद्मरागस्य, मा. लया माल्येन, पद्मरागमणिघटितमाल्यदानेनेत्यर्थः। करवीरं करवीरकुसुमम्, रक्तकरवीरपुष्पमालार्पणमित्यर्थः / पुनरुक्तं द्विरुक्तम्, द्विगुणीकृतमित्यर्थः। पुनरुक्तानि च पुनरुक्ता च पुनरुक्तोति द्वन्द्वे 'नपुसकमनपुंसकन-' इत्यादिना नपुंसकैकशेषे एकवद्भावः / अकार्षीत् कृतवान् / द्विविधेनापि माल्येन स नारायणमर्चयामासेति निष्कर्षः॥४२॥ उस ( नल ) ने उस (विष्णु भगवान् ) के मस्तक पर स्वर्णनिर्मित पुष्पमालाके चढ़ानेसे स्वर्णवर्ण ( पीले ) केतकियोंको, चाँदीकी बनी पुष्पमालाको चढ़ानेसे श्वेतकमलकी रचनाको तथा पद्मरागमणिकी बनी पुष्पमालाको चढ़ानेसे करवीर ( लाल कनेर ) को पुनरुक्त कर दिया। [ नलने विष्णु भगवान्के मस्तकपर पोली केतकी आदि तथा स्वर्ण निर्मित पुष्प आदिकी मालाको चढ़ाया ] // 42 // नाल्पभक्तबलिरन्ननिवेद्यैस्तस्य हारिणमदेन स कृष्णः / शङ्खचक्रजलजातवदर्चः शङ्खचक्रजलपूजनयाऽभूत् / / 43 // नेति / स भगवान् नारायणः, तस्य नलस्य, अन्ननिवेद्यैः अन्नान्येव भक्तान्येव निवेद्यानि उपहाराः तैः, इवेति शेषः / नाल्पः प्रभूतः भकबलिः अन्नोपहारः यस्य स तादृशः / 'भक्तमन्धोऽन्नम्' इत्यमरः। अन्यत्र-नाल्पभक्तः अधिकभक्तिसम्पन्नः, बलिः असुरविशेषः यस्य सः तादृशः, -तन्नामकः इत्यर्थः / अभूत् अजनि; तस्य हारिणमदेन कस्तूर्या, नलापितमृगमदोपहारेणेवेत्यर्थः / कृष्णः कृष्णवर्णः पापकर्षणात् कृष्णनामा च, 'कृष्णो वणे हरी ध्वांचे पिके व्यासे शुकेऽर्जुन' इत्यजयपालः / अभूत्, तथा शङ्खानां दक्षिणावर्तादीनां विविधानां कम्बूनाम्, चक्रे समूहे. 'चक्रं सैन्ये स्थाङ्गे च राष्ट्र दम्भान्तरे चये। आयुधाः सलिलावर्ताः' इत्यजयपालः। यत् जलं वारि, तेन या पूजना अर्चना तया, इवेति शेषः / शङ्ख पाञ्चजन्यन्, चक्रं सुदर्शनम्, जलजातं पद्मञ्च अस्या अस्तीति सा तद्वती शङ्खचक्रपद्मविशिष्टेत्यर्थः। अर्चा प्रतिमा पूजा च यस्य सः तादृशश्च / 'अर्चा पूजाप्रतिमयोः' इति विश्वः / अभत् / नलपूजानिबन्धना खलु भगवतः विष्णोल्पिभक्तलिरित्यादिशब्दवाच्यता अभूदिति भावः॥ वे विष्णु भगवान उस ( नल ) के ( चढ़ाये गये ) अन्नोपहारोंसे अधिक मातकी बलि (पूजा) वाले (पक्षा०-अतिशय मक्त 'बलि' नामक दैत्यवाले ) हुए, कस्तूरीसे कृष्ण वर्णवाले (पक्षा०-'कृष्ण' नाम वाले.) हुए तथा ( स्वर्णादिनिर्मित दक्षिणावर्त ) शङ्खों के समूहों के जलसे पूजन करनेसे शङ्ख-समूहके जलसे हुई है पूजा जिसकी ऐसे ( पक्षा०-शङ्ख, चक्र और कमलसे युक्त प्रतिमावाले ) हुए। [नलने भगवानको अन्नादिकी बलि देकर उनके 'नाल्प भक्तबलि, कृष्ण तथा शङ्खचक्रजलजातवदर्च विशेषणशब्दोंको सार्थक कर दिया। नलने विष्णु भगवानको अन्न, कस्तूरीका लेप तथा शङ्खसे युक्त जल चढ़ाया ] / / 43 //