SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ 1404 नैषधमहाकाव्यम् / मल्लिकाकुसुमडुण्डुभकेन स भ्रमीवलयितेन कृते तम् / आसने निहितमैक्षत साक्षात् कुण्डलीन्द्रतनुकुण्डलभाजम् / / 40 / / मल्लिकेति / सः नलः, भ्रमीवलयितेन चक्राकारवेष्टनः वलयाकारीकृतेन, मल्लिकाकुसुमानां मल्लिकापुष्पाणाम् , मल्लिकापुष्पग्रथितेनेत्यर्थः / हुण्डुभकेन राजिल. सर्पाकारया स्थूलया मालया / 'समौ राजिलहुण्डभौ' इत्यमरः / 'इवे प्रतिकृती' इति कन् / 'मल्लिकाकुसुमडुण्डुभकेन' इत्यत्र पादान्तगुरुत्वं छन्दःशास्त्रेऽभ्युपगम्यते / कृते निर्मिते, आसने पीठे, निहितं स्थापितम् , कुण्डलीन्द्रस्य नागराजस्य, शेषम्य सम्बन्धिन्याः इत्यर्थः / तनोः शरीरस्य, कुण्डलं वलयम् , कुण्डलिततनुः मित्यर्थः / भजते आश्रयति, क्षीरोदे शेषशायिरूपेणाधिशेते इत्यर्थः / यः तादृशम् , तं नारायणम् , साक्षाद् ध्यानयोगेन प्रत्यक्षमिव, ऐक्षत अपश्यत् // 40 // ___ उस (नल ) ने लपेटकर गोलाकार किये हुए, डोंड़ (निर्विष सर्प-विशेष ) साँपके समान मल्लिकापुष्पोंकी मालासे बनाये गये आसनपर स्थापित उस विष्णुको (क्षीरसागर में) साक्षात् कुण्डलित शरीरवाले शेषनागके ऊपर स्थित के समान देखा // 40 // मेचकोत्पलमयी बलिबन्धुस्तद्वलिस्रगुरसि स्फुरति स्म / कौस्तुभाख्यमणिकुट्टिमवास्तुश्रीकटाक्षविकटायितकोटिः // 41 / / मेचकेति / बले असुरविशेषस्य, बन्धुः बन्धकस्य, बलिनामकदैत्यराजबन्धन. कारिणो विष्णोरियर्थः / उरसि वक्षसि, कौस्तुभाख्यं कौस्तुभरत्नसंज्ञकम्, यत् मणि. कुट्टिमं रत्ननिबद्धभूमिः, तदेव वास्तु आवासभूमिः यस्याः तादृश्याः, श्रियः लक्ष्म्याः, कटाक्षेण अपाङ्गदर्शनेन, विकटायिताः विशालीभताः, वृद्धि गता इत्यर्थः / कोटयः प्रान्तदेशाः यस्याः सा तादृशी, मेचकोत्पलमयो नीलोत्पलग्रथिता, तस्य नलस्य, तेन नलेन दत्ता इत्यर्थः / बलिस्रक पूजामाल्यम् / 'बलिः पूजोपहारः स्याद् बलिदैत्यो बलिः करः' इति विश्वः / स्फुरति स्म शुशुभे // 41 // ( वामनावतार धारणकर ) बलिनामक दैत्यको बांधनेवाले (विष्णु) के हृदयमें उस (नल ) के द्वारा पूजामें अर्पित नीलकमलकी माला ऐसी शोभती थी कि-(विष्णु भगवान्के हृदयस्थ ) कौस्तुभ मणिजटित भूमिवाले निवासस्थान (घर ) वाली अर्थात् सर्वदा रहनेवाली लक्ष्मी के कटाक्षोंसे उस मालाके प्रान्तमाग वृद्धिंगत हो रहे हों // 41 / / स्वर्णकेतकशतानि च हेम्नः पुण्डरीकघटनां रजतस्य | मालयाऽरुणमणेः करवीरं तस्य मूर्ध्नि पुनरुक्तमकार्षीत् / / 42 / / स्वर्णति / स नलः, तस्य विष्णोः, मर्दिन शिरसि, हेम्नः सुवर्णस्य, मालया माल्येन, स्वर्णनिर्मितपुष्पमाल्यार्पणेनेत्यर्थः / स्वर्णकेतकानां स्वर्णवर्णकेतकीपुष्पाणाम् , शतानि बहुसङ्ख्यकानि, स्वर्णकेतकीकुसुममाल्यार्पणमित्यर्थः / रजतस्य रौप्यस्य, मालया स्त्रजा, रौप्यनिर्मितपुष्पमालाऽर्पणेनेत्यर्थः / पुण्डरीकानां सिताम्भो.
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy