________________ एकविंशः सर्गः। 1403 उत्तममिति / सः पूजानिरतः, महीभृत् भूपालो नला, उत्तमं पूरुषं पुरुषोत्तम विष्णुम् , पुरुषसूक्तस्य 'सहस्त्रशीर्षा पुरुषः' इत्यादिमन्त्रस्य, विधानः विधिभिः, महति स्म पूजितवान् / तथा सः नलः, द्वादशाक्षरम् 'ओं नमो भगवते वासुदेवाय' इत्येवं रूपं द्वादशाक्षरात्मकं मन्त्रम् , उदीर्य उच्चार्य, केशवस्य नारायणस्य, द्वादशापि च मूर्तीः केशवनारायणादि-द्वादशसङ्ख्यकविग्रहान् , ववन्दे तुष्टाव // 39 // उस राजा (नल ) ने ('सहस्रशीर्षाः पुरुषः.....' इत्यादि ) पुरुषसूक्तके विधानसे पुरुषोत्तम अर्थात् विष्णुका पूजन किया तथा ( 'ॐ नमो भगवते वासुदेवाय' इस ) द्वादशाक्षर मन्त्रका उच्चारण विष्णुके बारहों मूर्तियोंकी वन्दना की। [नलने 'सहस्रशीर्षा-' इत्यादि पुरुषसूक्तके सोलह मन्त्रोंसे विष्णु भगवान्के लिए जल या 'पुष्प चढ़ाया, अथवा-उक्त सोलह मन्त्रोंसे विष्णु भगवान्का षोडशोपचार पूजन किया तथा 'ॐ नमो भगवते वासुदेवाय' इस द्वादशाक्षर मन्त्रसे बाहर शालग्राम 'शिलाओंकी वन्दना की, अथवा- उक्त द्वादशाक्षर मन्त्रसे बारह सूर्यमूर्तियों के सहित नारायणकी बारह मूर्तियोंका 'ॐ केशवाय धात्रे नमः ललाटे' इस क्रमसे न्यास ( अङ्गन्यास ) किया ] // 39 // 1. तदुक्तम्'दद्यात्पुरुषसूक्तेन यः पुष्पाण्यप एव वा / अर्चितं स्याज्जगदिदं तेन सर्व चराचरम् // आनुष्टुभस्य सूक्तस्य त्रिष्टुभन्तस्य देवता / पुरुषो यो जगद्वीजमृषिर्नारायणः स्मृतः॥' 2. तदुक्त पद्मपुराणे 'शिला द्वादश भो वैश्य शालग्रामसमुद्भवाः / विधिवत्पूजिता येन तस्य पुण्यं वदामि ते // कोटिद्वादशलिङ्गस्तु पूजितैः स्वर्णपङ्कजः / यत् स्याद् द्वादशकल्पेषु दिलेनैकेन तद्भवेत् // ' इति / 3. तदुक्तम्-'द्वादशादित्यसहिता मौदिश विन्यसेत् / केशवाद्याः क्रमाद्देहे वक्ष्यमाणविधानतः॥ ललाटे केशवं धात्रा कुक्षौ नारायणं पुनः / अयंग्णा हृदि मित्रेण माधवः (वं) कण्ठदेशतः।। वरुणेन च गोविन्दं पुनर्दक्षिणपार्श्वके / अंशुना विष्णुमंसस्थं भगेन मधुसूदनम् // गले विवस्वता युक्तं त्रिविक्रममनन्तरम् / वामपावस्थमिन्द्रेण वामनाख्यमथांसके / पूष्णा श्रीधरनामानं गले पर्जन्यसंयुतम् / हषीकेशाह्वयं पृष्ठे पद्मनाभं ततः परम् // त्वष्ट्रा दामोदरं पश्चाद्विष्णुना ककुदि न्यसेत् / द्वादशाणं महामन्त्रं ततो मूर्ध्नि प्रविन्यसेत् // ' इति / 88 नै० उ०